Enter your Email Address to subscribe to our newsletters

– जनरल् उपेन्द्रद्विवेदी उक्तवान्— ‘ऑपरेशन् सिंदूर’ केवलं ट्रेलरमेव, यत् 88 होराभ्यन्तरे समाप्तम्
नवदेहली, 17 नवम्बरमासः (हि.स.)। सेनाध्यक्षः जनरल् उपेन्द्रद्विवेदीः सोमवारे चाणक्य–डिफेन्स–डायलोग् इत्यत्र पुनरपि ‘ऑपरेशन् सिंदूर’ विषये अवदत्— चलच्चित्रं तु अद्यापि न आरब्धम्, एतत् तु केवलम् 88 होरानां ट्रेलर–रूपम्। भविष्ये कस्यामपि परिस्थितौ वयं सज्जाः स्मः। यद्य पाकिस्तानः अवसरं दद्यात्, तर्हि वयं तान् शिक्षयेम—पार्श्ववर्तिना राष्ट्रेण कथं व्यवहर्तव्यम् इति। जनरल् द्विवेदी अवदत् यत् वयम् आतंकवादिनां तेषां च प्रायोजकानां प्रति तुल्यं व्यवहारं करिष्यामः। ये आतंकवादिनः पोषयन्ति, तान् प्रत्यपि प्रत्युत्तरं दास्यामः।
तेन अद्य मानेकशा–केन्द्रे सम्पन्ने चाणक्य–डिफेन्स–डायलोग् इत्यत्र उदित–सुरक्षा–चरणेषु सेनायाः दृष्टिकोणं निरूप्य पाकिस्तानं प्रति काठिन्येन चेतावनी प्रदत्ता। ‘ऑपरेशन् सिंदूर’ विषयं प्रति सेनाध्यक्षेन उक्तं यत् यदा कश्चन देशः राज्य–प्रायोजित–आतंकवादं पोषयति, तदा तत् भारतस्य चिन्ताविषयः भवति। भारतः प्रगतिं भाषते; यः कोऽपि मार्गे विघ्नं करोति, तं प्रति किञ्चित् कर्तव्यम्। अस्माभिः उक्तम्— “वार्ता आतंकवादः च एकत्र न शक्येते।”
स अवदत्— वयम् केवलं शान्तिपूर्णां प्रक्रियां वाञ्छामः, यस्मिन् वयं सहयोगं करिष्यामः। तावत् यावत् वयम् आतंकवादिनां तेषां च प्रायोजकानां प्रति समानम् आचरणं करिष्यामः। ये आतंकवादिनः प्रोत्साहयन्ति, तान् प्रत्यपि कठोरं प्रत्युत्तरम् दास्यामः। अद्य भारतं तावत् समर्थं यत् कस्यामपि ब्लैकमेल्–प्रयत्नस्य न भयम्। अद्य युद्धम् अनेकेषु क्षेत्रेषु भवति, कियत्कालपर्यन्तं चलिष्यति इति न वक्तुम् शक्यते । दीर्घकालिक–रसद्–संपन्नता नितराम् आवश्यकम्। अस्माकं राजनैतिक–इच्छाशक्ति च दृढा अस्ति, या अस्माकं प्रतिरोधक–शक्तिं बलीयसीं करोति। 5 अगस्त 2019 तिथेः अनन्तरं जम्मू–काश्मीर–प्रदेशे महद् परिवर्तनं जातम्; राजनैतिक–स्पष्टता प्राप्ता, आतंकवादः न्यूनोऽभवत्। सेनाध्यक्षेन उक्तं— भारतं राज्य–प्रायोजित–आतंकवादं प्रति दृढं प्रत्युत्तरं दास्यति।
मणिपुर–प्रदेशे स्थितिः
मणिपुरस्य विषये जनरल् द्विवेदी अवदत्— राष्ट्रपति–शासनस्य प्रवर्तनात् अनन्तरं स्थितिरेव सुधृता। जनविश्वासः समुदायानां च परस्पर–विश्वासः ववर्ध। डूरण्ड–कप् इत्यस्य आयोजनं कृतम्, यत्र अहमेव उपस्थितः आसम्। सितम्बर्–मासे प्रधानमन्त्रिणः मोदिनः दयात्रायां अपि स्थैर्यं वर्धितम्। यदि प्रगतिरेव निरन्तरं दृश्यते, तर्हि राष्ट्रपति च शीघ्रमेव आगमनं करिष्यति— मणिपुरे पुनः आशापूर्णाः दिवसाः आगच्छन्ति।
भारत–चीन–सम्बन्धाः
भारतचीनयोः सम्बन्धे सेनाध्यक्षः अवदत्— “गतम् अक्टुबर्–मासात् आरभ्य उभयोः देशयोः नेतृत्वेन कृता वार्ता—सामान्य–स्थितिं पुनः स्थापितुम्—सम्बन्धाः बहु परिष्कृताः।” आधुनिक–युद्धस्य दीर्घकालिकं बहु–क्षेत्रीयं च नियोजनम् अपेक्षितम्। अद्य युद्धम् बहु–क्षेत्रेषु भवति; कियत्कालपर्यन्तं चलिष्यति इति न ज्ञायते | दीर्घकाल–संपन्न–रसदा सुनिश्चितव्या।
हिन्दुस्थान समाचार / अंशु गुप्ता