Enter your Email Address to subscribe to our newsletters


- प्रातरेव पंक्तिर्निर्मिता, 30 सहस्रं भक्ताः अकुर्वन्दर्शन-पूजनम्
मीरजापुरम्, 17 नवंबरमासः (हि.स.)।
हलियाक्षेत्रस्थित सुप्रसिद्धगडबडाशीतलाधामे अगहनमासस्य त्रयोदश्यां सोमवारे आस्थायाः सागरः समुज्जृम्भितः। प्रातःकाले सहस्रशः भक्ताः सेवटी नदीं स्नात्वा मातुः शीतलायाः दर्शनपूजनार्थं दीर्घासु पङ्क्तिषु स्थिताः। पुरुषाः महिलाः बालकाः च नारिकेलं चुनरीं मालाफूलं पूडीहलुवं पूजासामग्रीं च हस्तयोः वहन्तो मातृमन्दिरे मनःकामनाः समर्पयितुं आगताः।
दीर्घकालपर्यन्तं प्रतीक्षां कृत्वा भक्ताः मन्दिरस्य गर्भगृहम् आगत्य मातुः शीतलायाः चरणयोः शिरसा प्रणताः। मन्दिरप्राङ्गणे सत्यनारायणव्रतकथा हवनपूजनादीनां कार्यक्रमः अपि आयोजितः, यत्र भक्तानां बहुला सहभागिता अभूत्। दर्शनानन्तरं भक्ताः मेले गृहउपयोगिसामग्रीनां क्रयं कृत्वा गृहे प्रतिनिवृत्ताः।
भक्तानां सुरक्षा व्यवस्था च सुनिश्चितुं मन्दिरप्रबन्धकौ सुभाषचन्द्रः ज्ञानचन्दशुक्लश्च निरन्तरं सीसीक्यामेरानियन्त्रणं कुर्वन्तौ स्थितौ। मन्दिरपुरोहितस्य मंगलधारिणः वचनानुसारं प्रातःकालात् अद्यावत् सञ्चिताः लगभग त्रिंशत्सहस्रभक्ताः मातुः शीतलायाः दर्शनं कृतवन्तः।
हिन्दुस्थान समाचार