स्वास्थ्यमन्त्री नड्डामहोदयेन नॉर्वेदेशस्य स्वास्थ्यमन्त्रिणा जान् क्रिश्चियन् वेस्ट्रे इत्यनेन सह मेलनं कृतम्।
नवदेहली, 17 नवंबरमासः (हि.स.)। केंद्रीयस्वास्थ्यमन्त्री जगत् प्रकाशः नड्डा इति सोमवासरे नॉर्वे-देशस्य स्वास्थ्य-मन्त्रिणा जान् क्रिश्चियन् वेस्ट्रे इत्यनेन सह साक्षात्कारम् अकुर्वन्। निर्माण-भवने सम्पन्नायां अस्यां सभायां नॉर्वे-स्वास्थ्य-मन्त्रिण
स्वास्थ्य मंत्री जे पी नड्डा ने  नॉर्वे के स्वास्थ्य मंत्री जान क्रिश्चियन वेस्ट्रे से की मुलाकात


नवदेहली, 17 नवंबरमासः (हि.स.)। केंद्रीयस्वास्थ्यमन्त्री जगत् प्रकाशः नड्डा इति सोमवासरे नॉर्वे-देशस्य स्वास्थ्य-मन्त्रिणा जान् क्रिश्चियन् वेस्ट्रे इत्यनेन सह साक्षात्कारम् अकुर्वन्। निर्माण-भवने सम्पन्नायां अस्यां सभायां नॉर्वे-स्वास्थ्य-मन्त्रिणा स्वास्थ्य-सेवा, चिकित्साक्षेत्रे तथा औषधविनियमनविषये पारस्परिक-सहयोगस्य सुदृढीकरणार्थं समझौता-ज्ञापनानां (एम्‌ओयू) हस्ताक्षरार्थं प्रस्तावः उपन्यस्तः।

सभायां डिजिटलस्वास्थ्य,मानवसंसाधनविकास, मातृ-शिशु-पोषणम्, तथा सहयोगात्मक-रोग-अनुसन्धानस्य विषयेषु भारतीय-सर्वकारस्य प्राथम्य-विषया विचारिताः। नड्ड-महोदयः उक्तवन्तः यत् एतत् सहयोगम् सार्थकप्रगतिम् अभिमुखं मार्गं प्रशस्तयति, द्वयोः राष्ट्रयोः मध्ये द्विपक्षीय-संबन्धानाम् अधिकं सुदृढीकरणम्, स्वास्थ्य-परिणामानां च उन्नयनम्‌ साधयति।

साक्षात्कारात् परम् सोमवासरे एव नड्डा-महाभागेन एक्स इति सामाजिक-माध्यमे सूचना प्रकाशिताः—

नॉर्वे-सरकारः स्वास्थ्य-चिकित्सा-क्षेत्रयोः सह औषध-विनियमन-विषये च सहयोग-वृद्धये सन्धिज्ञापनहस्ताक्षरं प्रस्तावितवान्। डिजिटल-स्वास्थ्य, मानव-संसाधन-विकास, मातृ-शिशु-पोषणम्, रोगेषु च सहयोगात्मक-अनुसन्धानम् इत्येषु क्षेत्रेषु भारतस्य प्राथम्यानि विचारितानि। नड्डा-महाभागाः अवदन् यत् —

स्वास्थ्य-सेवा-साझेदारी अथवा स्वास्थ्य-सहभागितां प्रगाढतया अग्रे नेतुं, द्वयोः राष्ट्रयोः मध्ये द्विपक्षीय-संबन्धानाम् अधिकं गाढ़ीकरणं कर्तुं च अहं सन्नद्धोऽस्मि।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani