भारतीयतटरक्षकदलेन २९ मत्स्यजीविभिः सह बाङ्गलादेशीय-ट्रॉलर इति गृहीतम्
कोलकाता, 17 नवंबरमासः (हि.स.)। भारतीयतटरक्षक–दलेन बंगाल–खाडीमध्ये पर्यवेक्षण–गमनकाले सन्दिग्धक्रियायाः अवगमने कृतें २९ मत्स्य–जीविभिः सहितं बाङ्गलादेशीयं ट्रॉलरं गृहीतम्। अनन्तरं सर्वे दक्षिण–चतुर्विंशति–परगणा–जिलायाः फ्रेजरगञ्ज–तट–आरक्षक–केन्द्रं
Coastal guard


कोलकाता, 17 नवंबरमासः (हि.स.)। भारतीयतटरक्षक–दलेन बंगाल–खाडीमध्ये पर्यवेक्षण–गमनकाले सन्दिग्धक्रियायाः अवगमने कृतें २९ मत्स्य–जीविभिः सहितं बाङ्गलादेशीयं ट्रॉलरं गृहीतम्। अनन्तरं सर्वे दक्षिण–चतुर्विंशति–परगणा–जिलायाः फ्रेजरगञ्ज–तट–आरक्षक–केन्द्रं प्रति उपन्यस्ताः। ततो हि ते भारतीयजलसीम्नि अनधिकृतप्रवेशदोषेण निगृहीताः अभवन्। तट–रक्षक–दलेन अद्य प्रातः प्रकाशिते वक्तव्ये एषा सूचना प्रदत्ता। तट–रक्षक–दलस्य अनुसारं रविवासरे गमन–पर्यवेक्षणे सति एकः सन्दिग्धः ट्रॉलरः दृष्टः। परीक्षायां ज्ञातं यत् सः ट्रॉलरः अन्तर्राष्ट्रीय–समुद्र–सीमां लङ्घ्य बाङ्गलादेशात् भारतीय–जल–प्रदेशं प्रति प्राप्तः। ततः सः ट्रॉलरः तट–पर्यन्तं नीतः तथा च मत्स्य–जीविनः सम्बन्धित–आरक्षक–केन्द्रे समर्पिताः।

सुन्दरवन जनपदस्य आरक्षक–अधिकारी अन्वेषणं कुर्वन्ति यत्कथं ट्रॉलरः भारतीयजलसीमां प्रति प्राप्तः। अभियुक्ताः सोमवारे काकद्वीप–उप–संभागीय–न्यायालये प्रस्तुताः भविष्यन्ति। अद्यतन–समये एकस्य भारतीयमत्स्यजीविनः बाङ्गलादेशकारागारे सन्दिग्ध–परिस्थितिषु मृत्यौ जातायां तटीयसुरक्षा कठोरा कृता आसीत्।

काकद्वीप–मीनजीविनसंघस्य सचिवः सतीनाथ–पात्र इत्यनेन ज्ञापितं यत् बाङ्गलादेशीय–ट्रॉलरः भारतीयजलसीमायाः उल्लङ्घनं कृतवान्। गतसितम्बरमासेऽपि त्रयोदश–बाङ्गलादेशीयमत्स्य–जीविभिः सहितः एकः ट्रॉलर इति भारतीयतटरक्षकदलेन गृहीतः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता