Enter your Email Address to subscribe to our newsletters

हैदराबादम्, 17 नवंबरमासः (हि.स.)।उपराष्ट्रपतिः सी पी राधाकृष्णन उक्तवान् यत् रामोजी राव एकः दूरदर्शी राष्ट्रनिर्माता आसीत्। सः विचारान् संस्थानरूपेण, स्वप्नांश्च नित्यसत्यरूपेण परिवर्तितवान्। अद्य उपराष्ट्रपति हैदराबादे रामोजी फिल्म सिटी इत्यत्र आयोजिते प्रथम रामोजी एक्सीलेंस अवार्ड्स द्विसहस्रपञ्चविंशति मध्ये मुख्यातिथिरूपेण सहभागी अभवत्। कार्यक्रमः रामोजी समूहस्य स्थापना दिवसस्य तस्य संस्थापकस्य रामोजी रावस्य च जयन्ती अवसरः आसीत्।अस्मिन् अवसरि ग्रामीणविकासः युथ आइकन विज्ञानप्रौद्योगिकी मानवसेवा कला संस्कृति पत्रकारिता महिला सिद्धिकर्तृभ्यः इति सप्तसु वर्गेषु पुरस्काराः प्रदत्ताः। सम्मानं प्राप्तवन्तः अमला आशोक रूइया श्रीकान्त बोला प्रोफेसर माधवी लता गाली आकाश टण्डन प्रो सत्यपति प्रसन्ना स्री जयदीप हार्डीकर पल्लबी घोष च।उपराष्ट्रपति अवदत् यत् रामोजी राव मीडिया संचार क्षेत्रयोः अग्रगण्यः आसीत् यः इनाडु आरभ्य रामोजी फिल्म सिटी ईटीवी नेटवर्क पर्यन्तं भारतीयपत्रकारितायाः मनोरञ्जनस्य उद्यमितायाः च नूतनदिशां प्रदत्तवान्। एते पुरस्काराः तान् जनान् सम्मानयन्ति ये उत्कृष्टां प्रेरणां सामाजिकपरिवर्तनभावनां च प्रगुणयन्ति।तैः मीडिया प्रति आह्वानं कृतम् यत् राष्ट्रं विकसित भारत द्विसहस्रसप्तचत्वारिंशत् इत्यस्य लक्ष्यस्य साधने सहभागी भवतु सत्यं नैतिकता उत्तरदायित्वयुक्तपत्रकारिता च अग्रतां नयतु विशेषतः तस्मिन् काले यदा अतिशयसूचना मिथ्यासूचना च शीघ्रं प्रसर्पतः।उपराष्ट्रपतिना मीडिया उत्तरदायित्वं प्रति बलं दत्तम् यत् प्रेस् लोकतन्त्रस्य चतुर्थस्तम्भरूपेण नागरिकान् सूचितान् कर्तुं महत्त्वपूर्णां भूमिकां वहति तस्य कार्यं सत्यं निष्पक्षता वस्तुनिष्ठता च आधारं कृत्वा करणीयम् इति। सः ड्रग फ्री भारत अभियानस्य प्रचारं कृत्रिमबुद्धेः युगे फेक न्यूज इत्यस्य विवेचनम् इत्येतयोः विषये अपि मीडिया भूमिकां निर्दिष्टवान्।कार्यक्रमे तेलङ्गानाराज्यपालः जिष्णु देव वर्मा पूर्वोपउपराष्ट्रपति एम् वेंकैया नायडू तेलङ्गानमुख्यमंत्री ए रेवन्त् रेड्डी आन्ध्रप्रदेशमुख्यमंत्री एन चन्द्रबाबु नायडू केन्द्रमन्त्री जी किशन रेड्डी किंजारापु राममोहन नायडू पूर्वमुख्यन्यायाधीशः एन वी रमना रामोजी समूहस्य सी एम् डी किरोन तथा अनेके चलचित्रक्षेत्रस्य प्रमुखाः अन्ये च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार