Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 17 नवंबरमासः (हि.स.)।
विदेशमन्त्री डोक्तर एस् जयशङ्करः सऊदी अरबस्थे मदीना नगरस्य समीपे भारतीयतीर्थयात्रिणां बस् दुर्घटनां प्रति दुःखं व्यक्तवान्। अस्मिन् दुर्घटनायामनेकानां नारीणां बालकानां च हताहतभावस्य आशङ्का वर्तते। ते अवदन् यत् रियाद् नगरस्थं जेद्दा नगरस्थं च अस्माकं दूतावासं पीडितपरिवाराणां साहाय्यं कुर्वन्ति। जेद्दा नगरस्थेन भारतीयमहावाणिज्यदूतावासेन नियन्त्रणकक्षः अपि स्थापितः अस्ति।
जयशङ्करः एक्स् पोस्ट् मध्ये अवदत् मदीना नगरे भारतीयनागरिकैः सह जाता दुर्घटना मां अत्यन्तं विषण्णं कृतवती। रियाद् स्थितम् अस्माकं दूतावासं जेद्दा स्थितं वाणिज्यदूतावासं च अस्याः दुर्घटनायाः प्रभावितान् भारतीयनागरिकान् तेषां परिवारान् च पूर्णसहाय्यं ददाति।
जेद्दा स्थितेन भारतीयमहावाणिज्यदूतावासेन शोकसन्तप्तपरिवाराणां प्रति गाढा संवेदना व्यक्ता। अन्यस्मिन् एक्स् पोस्ट् मध्ये उक्तम् यत् सऊदी अरबस्य मदीना निकटे भारतीयानां उमराह तीर्थयात्रिकानां सह जाता बस् दुर्घटना दृष्ट्वा जेद्दा स्थिते भारतीयमहावाणिज्यदूतावासे नियन्त्रणकक्षः स्थापितः अस्ति। अयं कक्षः अहोरात्रं कार्यं करिष्यति। यत्किञ्चित् सूचना इष्टा चेत् टोल् फ्री संख्या ८००२४४०००३ इति सञ्चारसङ्ख्यायां सम्पर्कः कर्तव्यः।
---------------
हिन्दुस्थान समाचार