नीतीशमन्त्रिमंडलस्य अन्तिमायां गोष्ठ्यां त्रयः प्रस्तावाः अनुमोदिताः, मुख्यमन्त्रिणा राज्यपालाय त्यागपत्रं समर्पितम्
पटना, 17 नवम्बरमासः (हि.स.)। बिहारप्रदेशस्य मुख्यमन्त्रिणा नीतीशकुमारस्य अध्यक्षतायां सोमवासरे मन्त्रिपरिषदस्य अन्तिमा गोष्ठी आसीत्, यस्याम् त्रयः प्रस्तावाः अनुमोदिताः। तदनन्तरं नीतीशकुमारः स्वीयम् त्यागपत्रम् राज्यपालाय आरिफ् मोहम्मद् खानमहोदयाय
जदयू कार्यालय में चुनाव संबंधी जानकारी लेते सीएम नीतीश कुमार साथ में विजय चौधरी और अन्य


पटना, 17 नवम्बरमासः (हि.स.)। बिहारप्रदेशस्य मुख्यमन्त्रिणा नीतीशकुमारस्य अध्यक्षतायां सोमवासरे मन्त्रिपरिषदस्य अन्तिमा गोष्ठी आसीत्, यस्याम् त्रयः प्रस्तावाः अनुमोदिताः। तदनन्तरं नीतीशकुमारः स्वीयम् त्यागपत्रम् राज्यपालाय आरिफ् मोहम्मद् खानमहोदयाय समर्पितवान्। नीतीशकुमारः राज्यस्य मुख्यमन्त्रिपदं त्यक्तवान्। तस्य त्यागपत्रात् परं राज्यपालः आरिफ् मोहम्मद् खान महोदयः तं नूतनसर्वकारस्य गठनपर्यन्तं कार्यवाहकमुख्यमन्त्रीरूपेण कार्यं कर्तुम् अनुरोधितवान्। त्यागपत्रात् पूर्वं नीतीशकुमारः सर्वकारस्य अन्तिमां मन्त्रिपरिषद्-सभां कृतवान्। सभायां मन्त्रिमण्डलभङ्गस्य प्रस्तावः पारितः।

इतः पूर्वं सम्पन्नायाम् अन्तिमायां मन्त्रिपरिषद्-सभायां त्रयः प्रस्तावाः अनुमोदिताः। राज्यस्य संसदीयकार्य मन्त्री, जनता दल् (युएनायटेड्) दलस्य वरिष्ठनेता विजयचौधरी महोदयः वार्ताहरैः सह संवादे अवदत् यत् अद्य मन्त्रिपरिषदः कुलतः त्रयः प्रस्तावान् अतीतवान्। प्रथमप्रस्तावेन 19 नवम्बरतः वर्तमानविधानसभाभङ्गस्य अनुशंसनं कृताऽभूत्। द्वितीयप्रस्तावे सर्वेभ्यः पदाधिकृत-कार्मिकेभ्यः तेषां कार्यकाले प्रदत्तसकारात्मकसहयोगस्य कृते धन्यवादः व्यक्तः। तृतीयप्रस्तावे तु इदानीं समाप्तेषु विधानसभानिर्वाचनेषु नीतीशकुमारस्य नेतृत्वे राष्ट्रियजनतान्त्रिकगठने (एनडीए) प्राप्तं बहुमतं प्रति मुख्यमन्त्रिणं शुभाशयाः आभारः च व्यक्तः।

सूत्राणाम् अनुसारं 20 नवम्बरदिवसे नीतीशकुमारः 10 वारं मुख्यमन्त्रीरूपेण शपथं ग्रहीतुं शक्नोति। तेन सह 31 मन्त्रीणामपि पद-गोपनीयतायाः शपथग्रहणं भविष्यति। शपथग्रहणसमारोहो राजधानीपटना-नगरस्थे गान्धी-उद्याने भविष्यति। अस्मिन् कार्यक्रमे राजग-शासितराज्यानां मुख्यमन्त्रीनां सहभागः भविष्यति। सम्भाव्यते यत् प्रधानमन्त्रिणा नरेन्द्रमोदीना अपि समारोहे सहभागिता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता