पीडितानां सहायता–कार्येषु यदि का‍श्चन अवहेलना दृश्यते तर्हि कठोरं कार्यान्वयनं भविष्यति - मुख्यमन्त्री।
गोरखपुरम्, 18 नवंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथेन अधिकारिभ्यः स्पष्टा आज्ञा दत्ता यत् आरक्षकसम्बद्धेषु विषयेषु कठोरं कार्यान्वयनम् अपेक्षितम्। पीडितानां सहाय्ये विलम्बः, अवहेलना वा कदापि न शोभते। जनसामान्यस्य समस्यासु यदि कोऽपि अधिकारी
*पीड़ितों की सहायता में लापरवाही पर होगी कार्रवाई : मुख्यमंत्री*


*पीड़ितों की सहायता में लापरवाही पर होगी कार्रवाई : मुख्यमंत्री*


*पीड़ितों की सहायता में लापरवाही पर होगी कार्रवाई : मुख्यमंत्री*


गोरखपुरम्, 18 नवंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथेन अधिकारिभ्यः स्पष्टा आज्ञा दत्ता यत् आरक्षकसम्बद्धेषु विषयेषु कठोरं कार्यान्वयनम् अपेक्षितम्। पीडितानां सहाय्ये विलम्बः, अवहेलना वा कदापि न शोभते। जनसामान्यस्य समस्यासु यदि कोऽपि अधिकारी किंचन अवधानहीनतां करोति तर्हि तस्य विरुद्धं दण्डात्मक-कार्यवाही अपि अनिवार्या भविष्यति। पीडितस्य कार्यनिराकरणे यदि काचिद् बाधा विद्यते तर्हि तस्याः कारणं ज्ञात्वा तत् शीघ्रं परिहर्तव्यं, तथा च यदि जानिबुद्ध्या कश्चन अधिकारी प्रकरणं लम्बितं कृतवान् इति दृश्यते तर्हि तस्य उत्तरदायित्वं विधेयम्।

एतान् निर्देशान् मुख्यमन्त्रिणा मङ्गलवासरे प्रातः गोरखनाथ-मन्दिरे आयोजिते जनतादर्शन-समये जनानां समस्याः श्रुत्वा प्रदत्ताः। मन्दिरपरिसरे महन्त-दिग्विजयनाथ-स्मृति-भवन-सभागारे निष्पन्ने जनता-दर्शने मुख्यमन्त्री योगी आदित्यनाथः त्रिशताधिक लोकैः सह भेटकृत्वा तेषां समस्याः अशृणोत्। योगी महोदयेन सर्वेभ्यः विश्वस्तं कृतम् यत् कस्यपि भयस्य आवश्यकं नास्ति, सर्वाणि कार्याणि प्रभावेन निराक्रियन्ते। तदर्थं तेन प्रशासन-आरक्षकाधिकारिणः प्रति स्पष्टरूपेण उक्तं यत् जनसमस्याणां समयबद्धं, निष्पक्षं, गुणवत्तापूर्णं निस्तारणम् अनिवार्यम्। किञ्चन प्रकरणेषु तेन निर्देशः दत्तः यत् यदि कुत्रापि प्रशासनस्य सहयोगः न प्राप्तः तर्हि तस्य कारणं ज्ञातव्यं। सर्वेषां पीडितानां शीघ्रा सहायता प्रदेयैव। भूमि–अतिक्रमण–सम्बद्ध–शिकायतिषु तेन विधानुगुणं कठोरं कार्यान्वयनम् अपि आदेशितम्।

यथा प्रत्येकस्मिन् जनता-दर्शने भवन्ति, तथा अद्यापि कतिचन जनाः चिकित्सासहाय्याय अभ्यर्थयितुम् आगताः। तत्र मुख्यमन्त्रिणा अधिकारिणः प्रति उक्तम् यत् शीघ्रतया आस्पतालीय-व्यय-आकलन संपाद्य शासनं प्रति प्रेष्यताम्। उपचारार्थं मुख्यमन्त्री-विवेकाधीन-कोशात् पर्याप्ता सहायता प्रदास्यते। जनता-दर्शने परिजनैः सह आगतान् बालकान् स स्नेहेन सान्त्वयित्वा तेषु चॉकलेट् वितरितवान्। गोरखनाथमन्दिरे निवासकाले मुख्यमन्त्रिणः प्रातःकालीनं चर्याचक्रम् यथापूर्वम् एव आसीत्। गुरोः गोरखनाथस्य दर्शन-पूजनं कृत्वा, स्वगुरोः ब्रह्मलीन- महन्त-अवैद्यनाथस्य प्रतिमायाम् प्रणिपत्य, सः मन्दिरपरिसरं विचरन् अगच्छत्। पश्चात् मन्दिरस्य गोशालां गतः, गोसेवा कृतवान्, गवां प्रति स्नेहेन गुड-रोटिका प्रदत्तवान्। तत्र मुख्यमन्त्रिणः आगमनसमये यथा प्रायः भवति, तथैव एकः मयूरः अपि समीपमागतः। योगी महोदयेन तं मयूरम् अपि सस्नेहम् आलिङ्ग्य स्वहस्ताभ्यां रोटिका खादयितः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani