Enter your Email Address to subscribe to our newsletters


रामगढ़म्, 18 नवंबरमासः (हि.स.)।
राधा गोविन्द विश्वविद्यालये मङ्गलवारे क्रीडास्पर्धा आरब्धा। स्पर्धायाम सप्तदश अष्टादश नवेम्बरदिनाङ्कयोः क्रिकेटक्रीडा, विंशतितमे एकविंशतितमे नवेम्बरदिनाङ्कयोः वालिबालक्रीडा तथा चतुर्विंशतितमे षड्विंशतितमे नवेम्बरदिनाङ्कयोः फुटबालस्पर्धा भविष्यति।
स्पर्धायाः आरम्भः विश्वविद्यालयस्य मुख्यातिथिना सचिवया प्रियङ्कया कुमारी, कुलपतिना प्रोफेसर डाक्टर रश्मिना, कुलसचिवेन प्रोफेसर डाक्टर निर्मलकुमारमण्डलेन, माध्यमप्रभारिणा डाक्टर संजयसिंहेन च कृतः।
स्पर्धायाः प्रथमः समतलीयः क्रीडासमुच्चयः आङ्ग्लविभागस्य शारीरिकशिक्षाविभागस्य च मध्ये जातः। अस्मिन् आङ्ग्लविभागेन जयलाभेन सह उपान्त्यचरणं प्राप्तम्। द्वितीयः क्रीडासमुच्चयः बिसिऐ विभागस्य एनसिसिसंस्थायाः च मध्ये जातः यस्मिन् एनसिसिसंस्थया विजयलाभेन सह उपान्त्यचरणं प्राप्तम्।
तृतीयः क्रीडासमुच्चयः फार्मेसी ए विभागस्य अभियान्त्रिकी तथा प्रौद्योगिकी विभागस्य च मध्ये अभवत्। चतुर्थः क्रीडासमुच्चयः डी फार्मा बी विभागस्य भूगोलविभागस्य च मध्ये जातः यस्मिन् डी फार्मा बी विभागः उपान्त्यचरणम् प्राप्तवान्।
विश्वविद्यालयस्य कुलाधिपतिः बी एन साह अवदत् यत् एतादृशाः आयोजनाः छात्रेषु दलभावना अनुशासनं नेतृत्वं च इति गुणान् विकासयन्ति।
---------------
हिन्दुस्थान समाचार