सीएचसी अयाना ग्रामे आयोचयत् आरोग्यमेलाम्
औरैया, 18 नवंबरमासः (हि.स.)।शासनस्य अभिलाषानुसारं न्यायपञ्चायतस्तरे आयोजिते आरोग्यमेले सामुदायिकस्वास्थ्यकेन्द्रस्य अयानायाः चिकित्सकदलम् ग्रामचौकीस्थले मंगलवासरे स्वास्थ्यमेले आयोजनेन प्रवृत्तम्। अस्मिन् मेले ग्रामीणजनाः उत्साहपूर्वकं सहभागितां कृ
गांव में लगा अरोग्य मेला में उपस्थित स्वास्थ विभाग की टीम।


औरैया, 18 नवंबरमासः (हि.स.)।शासनस्य अभिलाषानुसारं न्यायपञ्चायतस्तरे आयोजिते आरोग्यमेले सामुदायिकस्वास्थ्यकेन्द्रस्य अयानायाः चिकित्सकदलम् ग्रामचौकीस्थले मंगलवासरे स्वास्थ्यमेले आयोजनेन प्रवृत्तम्। अस्मिन् मेले ग्रामीणजनाः उत्साहपूर्वकं सहभागितां कृतवन्तः रक्तदाब शर्करामानम् कासश्वासज्वरादीनि सामान्यानि व्याधिलक्षणानि च निरीक्षितानि उपचाराश्च दत्ताः। मेले समागतानां पञ्चाशत् रोगिणां परीक्षणं कृत्वा तेषु यथोचितौषधदाना कृता।

सी एच सी अयाना इत्यस्य अधीक्षकः डॉ सुनीलकुमारशर्मा अवदत् यत् शासननिर्देशानुसारं न्यायपञ्चायतस्तरे आरोग्यमेलानां आयोजनं प्रचलति येन ग्रामप्रदेशेषु वसतां नागरिकानां ग्रामस्य समीपे एव स्वास्थ्यसेवा लभेत। तेनोक्तं यत् एतेषु स्वास्थ्यमेलेषु मुख्योद्देशः जनान् प्राथमिकस्वास्थ्यसेवाभिः संयोजयितुम् रोगाणां पूर्वमेव निदानं कर्तुम् समयोचितं उपचारं प्रदानं च।

डॉ शर्मा अवदत् यत् ग्रामप्रदेशेषु बहुशः जनाः लघूनि रोगलक्षणानि अवज्ञाय तीव्ररूपेण व्याधिः प्रवर्धते। आरोग्यमेलेन तु समये परीक्षणं चिकित्सा च दीयते। ते ग्रामीणान् प्रति आह्वानं कृतवन्तः यत् एतेषु आयोजनेषु सर्वे ग्रामवासी अवश्यं आगत्य स्वस्वास्थ्यपरीक्षणं कुर्वन्तु।

आरोग्यमेलस्य सफलाय आयोजनाय ग्रामपञ्चायतभसोंन नवादा सडरापुर अयाना सहोली बिझालपुर इत्येषां पञ्चायतसचिवाः रोशनसाहू सत्यमपरमार प्रदीपगौतम एडीओ पञ्चायत विजयकुमार ब्लॉकसमन्वयक इशूगौतम ग्रामपञ्चायतसहायका रोजगारसेवकाः आशाबधूश्च उपस्थिताः आसन्। सर्वे मिलित्वा मेले सुचारुरूपेण सञ्चालितवन्तः स्वास्थ्यसेवाविषये जनानां प्रति आवश्यकसूचनाश्च दत्ताः।

मेले आगताः ग्रामीणाः स्वास्थ्यविभागेन प्रदत्तस्य सुविधाजनकचिकित्सायाः प्रशंसां कृतवन्तः। ते अवदन् यत् एतेषु मेलेषु प्रदत्ताः सेवाः बहु उपकारकाः भवन्ति यतो हि दूरेषु रोगालयेषु गन्तुं कालधनयोः क्षयो भवति। आरोग्यमेलः सायंकालपर्यन्तं प्रचलिष्यति स्वास्थ्यदलश्च रोगिणां समस्याः सावधानतया शृण्वन्तः उपचारं दास्यन्ति।।

---------------

हिन्दुस्थान समाचार