Enter your Email Address to subscribe to our newsletters

बेलेमम्, 18 नवंबरमासः (हि.स.)।केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः विकसितदेशेभ्यः अधिकां जलवायुमहत्त्वाकाङ्क्षां प्रदर्शयितुं पूर्वमेव नेटजीरो लक्ष्यस्य सिद्धिं साधयितुं च जलवायुवित्तं न केवलं अरबेषु अपि तु खरबेषु उपलब्धं कर्तुं द्रढमभ्यर्थयन् अवदत् यत् कॉप त्रिंशत् अमलस्य कॉप इति वदानां पूर्तेः कॉप इति च स्मरणीयं भवितुमर्हति।
तेन ब्राजीलदेशस्य बेलेम्नाम्नि नगरि आयोजिते संयुक्तराष्ट्रजलवायुपरिवर्तनफ्रेम्वर्कसम्मेलने कॉप त्रिंशत्सम्बद्धे उच्चस्तरीयसत्रे ब्राजीलसरकारं अमेजनप्रदेशवासिनश्च कृतज्ञतया स्मरन् उक्तं यत् अमेजन प्रदेशः पृथ्व्याः पर्यावरणसम्पदः सजीवप्रतीकं अस्ति। तादृशे स्थाने आयोजितं सम्मेलनं वैश्विकजलवायुदायित्वस्य गाम्भीर्यं स्पष्टयति।
तेन उक्तं यत् विकसितदेशैः अद्यापि स्वप्रतिज्ञासु पर्याप्ता प्रगतिर्न कृताऽस्ति यदा तु जलवायुसंकटं तीव्रतरं भूयते। विकसितदेशैः वर्तमानकालमर्यादात् पूर्वमेव नेटजीरो लक्ष्यं साधनीयम्। नव्या अतिरिक्ता च रियायतयुक्ता जलवायुवित्तसहायता खरबस्तरीये एव दातव्या। जलवायु सम्बन्धिताः तन्त्रज्ञानप्रणालिकाः सर्वेषु राष्ट्रेषु सुलभाः किफायत्यमूल्याः च बौद्धिकस्वाम्यप्रतिबन्धेभ्यः मुक्ताः भवितुमर्हन्ति।
भूपेन्द्रयादवः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना नेतृत्यमानं भारतं दर्शयति यत् विकासः पर्यावरणसंरक्षणं च एकस्मिन् मार्गे समं प्रवर्तेताम्। संवत्सरद्वयस्य द्विसहस्रपञ्चात् आरभ्य भारतस्य उत्सर्जनतीव्रता षट्त्रिंशदधिकप्रतिशतं न्यूनिता अभवत्। देशस्य विद्युतस्थापितक्षमतायां जीवाश्मरहितऊर्जाया अर्धाधिकं भागं सम्प्राप्तः। अयं राष्ट्रीयनिर्धारितयोगदाने निर्दिष्टः लक्ष्यः भारतेन संवत्सरत्रिंशत् इत्यस्य कालमर्यादात् पञ्चवर्षपूर्वमेव साधितः।
तेन उक्तम् यत् भारतं स्वसंशोधितम् एनडीसी वर्षं पञ्चत्रिंशदधिकत्रिंशत् यावत् समयेन एव प्रकाशयिष्यति। प्रथमद्विवार्षिकपारदर्शिताप्रतिवेदनं अपि समयेन प्रस्तुतं भविष्यति। अन्तरराष्ट्रीयसौरऐलायन्सः ग्लोबल बायोफ्यूल ऐलायन्सः न्यु क्लियर मिशन ग्रीन हाइड्रोजन मिशन च भारतस्य द्विसप्तत्यधिकद्विसहस्रसंवत्सरपर्यन्तं नेटजीरो यात्रां सुदृढां कुर्वन्ति।
तेन एव अवोचत् यत् पेरिससम्झौतेन निर्दिष्टं यत् कार्बनसिंक तथा नैसर्गिकसञ्चयानां संरक्षणं प्रवर्धनीयम् तदर्थं सामुदायिकसहभागितया षोडशमासेषु द्विबिलियनाधिकाः पौगला रोपिताः ये सामूहिकजलवायुप्रयत्नानां बलं सूचयन्ति।
---------------
हिन्दुस्थान समाचार