रोजी पब्लिकविद्यालयस्य वार्षिकोत्सवे बालाः प्रास्तुवन् सांस्कृतिककार्यक्रमान्
फर्रुखाबादम्, 18 नवंबरमासः (हि. स.)। रोजीपब्लिकविद्यालयस्य रजतजयंतीवार्षिकोत्सवे छात्रैः सांस्कृतिककार्यक्रमैः भारतीयसंस्कृतेः एकतायाः अखण्डतायाः ऐतिहासिकदर्शनस्य कर्तव्येषु अधिकारेषु च जागरूकतायाः देशभक्तेः च संदेशः प्रदत्तः। समारोहस्य शुभारम्भ
फर्रुखाबाद।रोजी पब्लिक स्कूल में कार्यक्रम पेश कर रहे बच्चे।


फर्रुखाबादम्, 18 नवंबरमासः (हि. स.)।

रोजीपब्लिकविद्यालयस्य रजतजयंतीवार्षिकोत्सवे छात्रैः सांस्कृतिककार्यक्रमैः भारतीयसंस्कृतेः एकतायाः अखण्डतायाः ऐतिहासिकदर्शनस्य कर्तव्येषु अधिकारेषु च जागरूकतायाः देशभक्तेः च संदेशः प्रदत्तः। समारोहस्य शुभारम्भः राजपूटरिजिमेण्टस्य कमाण्डेण्ट् ब्रिगेडियरमाइकलडिसूजानामकस्य सत्कारपूर्वकं कृतः।

मुख्यअतिथिना छात्रैः आयोजितस्य प्रदर्शनीस्य अवलोकनं कृतम्। प्रधानाचार्येण अक्षयश्रीवास्तवेन विद्यालयस्य वार्षिकारूपरेखा प्रस्तुताऽभवत् भविष्यस्य योजनाः अपि निवेदिताः।

रजतजयंतीवार्षिकोत्सवसमारे ब्रिगेडियरमाइकलडिसूजा इत्यनेन विद्यालयस्य प्रतिभावान् छात्रछात्राभ्यः पुरस्कारवितरणं कृतम्। वार्षिकेषु रचनात्मकक्रियाकलापेषु विशिष्टफलम् अवाप्तवन्तः छात्राः अपि मंचतः सम्मानिताः।

निर्देशकः सन्दीपमोहनपाण्डेयो मुख्यातिथये स्मृतिचिह्नं प्रदत्तवान् उपप्रधानाचार्या ममताचौहान मुख्यातिथेः अतिथीनां अभिभावकानां च प्रति हार्दिकं आभारं प्रकटितवती।

---------------

हिन्दुस्थान समाचार