Enter your Email Address to subscribe to our newsletters

संभलम्, 18 नवंबरमासः (हि.स.)। जनपद-सम्भलस्य कैला-देवी-धाम्नः महन्तः अन्तरराष्ट्रीय-हरिहर-सेनायाः संस्थापकः ऋषिराज-गिरिः गत-दिने १९ नवम्बर-दिने एक-दिवसीय-हरिहर-मन्दिर-पदयात्रा-आयोजनस्य घोषणां कृतवान्। विवादितस्थलस्य (शाही-जामा-मस्जिद्/श्री-हरिहर-मन्दिरम्) परकोटस्य परिक्रमा प्रायः अर्धत्रिकिलोमीटर-मार्गे आयोजिता भविष्यति।
कैला-देवी-धाम्नः महन्ता ऋषिराज-गिरिणा उक्तं यत् हरिहर-मन्दिर-पदयात्रा १९ नवम्बर-दिने बुधवासरे प्रातः १० वादने अत्रतः प्रस्थानं करिष्यति। तत्रैव सम्भल-जनपदस्य जिलाधिकारी राजेन्द्र-पैंसिया इति महोदयेन पत्रकारेभ्यः उक्तं यत् कैला-देवी-धाम्नः महन्ता ऋषिराज-गिरिः १९ नवम्बर-दिने पदयात्रां निष्कासयन्ति। सम्भले धारा १६३ प्रचलिता अस्ति इति कारणेन अद्यैव निर्णयः भविष्यति। सुरक्षा-व्यवस्थायाः वृद्दिः कृता, मजिस्ट्रेट्-पदस्थापनं च सम्पन्नम्।
हिन्दुस्थान समाचार / अंशु गुप्ता