Enter your Email Address to subscribe to our newsletters

भोपालम्, 18 नवंबरमासः (हि.स.)। आसियान-देशानां राजनयिकानां प्रतिनिधिमण्डलम् अद्य मध्यप्रदेशस्य त्रिदिनीय-प्रवासार्थम् आगच्छति। प्रतिनिधिमण्डलस्य सदस्याः नवम्बर-मासस्य विंशतितमे दिनाङ्कपर्यन्तं भोपालीस्थिते मुख्यमंत्री डॉ. मोहनयादवः तथा राज्यपालः मंगुभाईपटेलः इति उभाभ्याम् सह समागमं करिष्यन्ति, अत्र च निवेश-संगोष्ठौ तथा सांस्कृतिक-कार्यक्रमेषु सहभागिताम् अपि करिष्यन्ति इति जनसम्पर्क-अधिकारी बबीतामिश्रा इत्यनेन अवेदितम्।
तयाः सूचितम् यत् अस्य भ्रमणस्य उद्देश्यः मध्यप्रदेशस्य आसियान-देशैः सह आर्थिक-औद्योगिकनिवेशसांस्कृतिक-सहकारस्य सुदृढीकरणम् अस्ति। प्रतिनिधिमण्डलम् अद्य एव मुख्यमंत्री डॉ. मोहनयादवेन सह मेलनं करिष्यति। सभायाम् राज्य-सर्वकारस्य निवेश-अनुकूल-पर्यावरणम्, औद्योगिक-नीतिः तथा आसियान-देशैः सह भागीदारी इति विषयाः मुख्यतया चर्चिताः भविष्यन्ति। मुख्यमंत्री डॉ. यादवः प्रदेशे शीघ्रं विकसमानम् औद्योगिक-चित्रम्, सूचनातन्त्रं, विनिर्माणम्, कृषि-प्रक्रिया, पर्यटनं तथा नवकरणीय-ऊर्जा-क्षेत्रेषु निवेशस्य सम्भावनाः इति विषये संवादं करिष्यन्ति। प्रतिनिधिमण्डलम् रात्रिभोजे अपि सम्मिलिष्यते, यस्मिन् समये उभयोः पक्षयोः मध्ये परस्पर-सहयोगस्य आर्थिक-संबन्धानां च सुदृढीकरणम् अधिकृत्य चर्चाः भविष्यन्ति।
बबिता-मिश्रया अनुसारम्, प्रतिनिधिमण्डलम् द्वितीय-दिने राज्यपालं मंगुभाई-पटेलम् उपसङ्गम्य शिष्टाचार-भेंटं करिष्यति। ततः अनन्तरं प्रतिनिधिमण्डलस्य सदस्याः भोपाल-नगरस्थे होटल् कोर्टयार्ड् मैरियट् इत्यत्र आयोजिते ट्रेड् एंड् इन्वेस्टमेंट् सेमिनार् इति नामके संगोष्ठौ सहभागितां करिष्यन्ति। संगोष्ठ्यां राज्यस्य उद्योगपतयः, वाणिज्य-मण्डलानाम् प्रतिनिधयः, प्रमुख-निवेशकाः च सहभागी भवन्ति। अत्र मध्यप्रदेशस्य औद्योगिक-विकासः, पूर्वाधार-सुव्यवस्था, लॉजिस्टिक्-नेटवर्क्, निवेश-अनुकूल-नीतयः च विस्तरेण प्रस्तुताः भविष्यन्ति।
जनसम्पर्क-अधिकारी अवदत् यत् प्रतिनिधिमण्डलम् नवम्बर-मासस्य उन्नविंशे दिने सांची-भीमबेटका इत्यादि युनेस्को-विश्वधरोहर-स्थलानां सुप्रसिद्धानां प्रदेशानां च दर्शनम् करिष्यति। तृतीय-दिने विंशतितमे नवम्बर-दिने प्रतिनिधिमण्डलम् भोपालीस्थिते इन्दिरा-गान्धी-राष्ट्रीय-मानव-संग्रहालये तथा जनजातीय-संग्रहालये अपि अवलोकनं करिष्यति। एषः समग्रः कार्यक्रमः प्रधानमन्त्रिणः नरेन्द्र-मोदी-प्रणीतस्य ‘एक्ट् ईस्ट् पॉलिसी’ इति नीत्याः अनुरूपः यः भारतस्य दक्षिण-पूर्व-एशियेन सह आर्थिक-निवेश-सांस्कृतिक-संबन्धानां सुदृढीकरणस्य लक्ष्यं वहति।
सा अवदत् यत् एषः दौरः मध्यप्रदेशस्य आसियान-देशैः सह दीर्घकालीन-सहकार्यस्य दिशि एकं सुदृढं पादक्षेपं सिद्धो भविष्यति, औद्योगिक-वाणिज्यिक-सांस्कृतिक-सहभागिता च नूतनां गतिं प्राप्स्यति। ज्ञातव्यम् यत् आसियान इति दक्षिण-पूर्व-एशियाई-देशानां क्षेत्रीय-संघटनं नाम। तस्य उद्देश्यं सदस्य-देशानां मध्ये आर्थिक-सहयोगस्य, व्यापारस्य, सुरक्षायाः, सांस्कृतिक-संबन्धानां च उन्नयनं तथा क्षेत्रीय-स्थिरतायाः सुदृढीकरणम् अस्ति। आसियान-संघे दश देशाः सन्ति—इण्डोनेशिया, मलेशिया, सिंगापुरम्, थाइलैण्ड्, फिलीपीन्स्, वियतनाम्, म्यान्मार्, कंबोडिया, लाओसः, ब्रुनेई इति।
हिन्दुस्थान समाचार / अंशु गुप्ता