भारतस्य विकासप्रारुपः विश्वस्मै आशाप्रतीकस्संजातः- प्रधानमंत्री
षष्ठे रामनाथ गोयनका व्याख्याने प्रधानमंत्रिणः मोदिनः संबोधनम् नवदिल्ली, 18 नवंबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना मंगलवारे षष्ठे रामनाथगोयनकव्याख्याने प्रदत्तं स्वभाषणं प्रकाश्य देशवासिभ्यः अतीतानां दशवर्षाणां मध्ये गुलाम्याः मानसिकताय
प्रधानमंत्री नरेन्द्र मोदी


षष्ठे रामनाथ गोयनका व्याख्याने प्रधानमंत्रिणः मोदिनः संबोधनम्

नवदिल्ली, 18 नवंबरमासः (हि.स.)।

प्रधानमन्त्रिणा नरेन्द्रमोदिना मंगलवारे षष्ठे रामनाथगोयनकव्याख्याने प्रदत्तं स्वभाषणं प्रकाश्य देशवासिभ्यः अतीतानां दशवर्षाणां मध्ये गुलाम्याः मानसिकतायाः पूर्णमुक्तिं कर्तुं सङ्कल्पं ग्राहयितुं निवेदनं कृतम्। ते अवदन् यत् एषा मानसिकता उपनिवेशवादस्य एव प्रसूतिर्हि तथा समयः आगतः यत् राष्ट्रं तस्याः पूर्णतया विमुक्तं भवेत्। ते देशवासिनः सामूहिकसङ्कल्पेन औपनिवेशिकमानसिकताया विमोचनमार्गे अग्रे गन्तुं प्रार्थितवन्तः।

प्रधानमन्त्री मोदी सोशलमीडियाख्ये एक्सनामकवेदिकायां प्रकाशिते स्वपोस्टे अवदत् यत् रामनाथगोयनकस्य जीवनं राष्ट्रप्रथमभावनायाः सत्यप्रतिबद्धतायाश्च अचलचिह्नं बभूव। सः नित्यं कर्तव्यं प्रधानम् अमन्यत तथा एव भावना अद्यापि पत्रकारितायाः लोकतन्त्रस्य च प्रेरणास्रोतं अस्ति। लोकतन्त्रविषये वक्तुं प्रधानमन्त्रिणा अद्यतनं बिहारविधानसभाचुनावं अपि निर्दिष्टम्। ते अवदन् यत् अभूतपूर्वमतदानं विशेषतः च स्त्रीणां वर्धमानभागीदारी भारतस्य लोकतन्त्रं निरन्तरं सुदृढं भवति इति सूचयति।

प्रधानमन्त्री अवदन् यत् भारतस्य विकासः विश्वस्य कृते आशाया आदर्शः भूत्वा तिष्ठति। राष्ट्रस्य आर्थिकप्रगति सामाजिकपरिवर्तनं च विश्वस्य समक्षं दृष्टान्तरूपेण दृश्यते। चुनावे विजयस्य मूलमन्त्रः जनसमुदायस्य भावनाः बोधयितुं न तु नित्यं चुनावाभिमुखभावेन अवस्थितुं इति।

प्रधानमन्त्री जगाद यत् भारतदेशे माओवादस्य प्रभावः निरन्तरं क्षीयते यत् राष्ट्रस्य विकासस्य सुरक्षायाश्च अतीव हितकरं सूचनारूपं दृश्यते।

---

हिन्दुस्थान समाचार