Enter your Email Address to subscribe to our newsletters

बेलेमम्, 18 नवंबरमासः (हि.स.)।
केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः ब्राजीलदेशस्य बेलेमनाम्नि नगरि आयोजिते संयुक्तराष्ट्रजलवायुपरिवर्तनसम्मेलने कॉप त्रिंशत् इति ख्याते अन्तरराष्ट्रियबिगकैटऐलायन्सस्य उच्चस्तरीयमन्त्रिसत्रे भारतस्य दृढप्रतिबद्धतां पुनरावृण्वन् उद्घोषयत् यत् भारतवर्षे षड्विंशतिसंवतः नूतनदिल्लीनगरे ग्लोबलबिगकैट्ससम्मेलनस्य आतिथ्यं करिष्यति। अस्मिन् कार्यक्रमे नेपालदेशस्य कृषिपशुपालनमन्त्री डा मदनप्रसादपरियार अपि उपस्थिताः आसन्।
केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्रालयस्य अनुसारं भूपेन्द्रयादवः अवदत् यत् महाबिडालप्रजातयः केवलं वन्यजीवाः न सन्ति अपितु प्रकृतेः सम्यक्सन्तुलनस्य मुख्यानि अङ्गानि भवन्ति। यत्र महाबिडालाः सुरक्षिताः तत्र एव वनानि सुदृढानि भवन्ति घासभूमयः पुनर्जीवनं प्राप्नुवन्ति जलप्रणालिकाः सम्यक् कार्यं कुर्वन्ति च नैसर्गिककार्बन अधिकं प्रभावशालितया संरक्षितः भवति। एतासाम् प्रजातीनां हानिः पर्यावरणतन्त्रस्य दुर्बलतां जनयति जलवायुपरिवर्तनस्य प्रति सहनशीलतां न्यूनां करोति च नैसर्गिककार्बनसञ्चयाः अपि प्रभाविताः भवन्ति।
भूपेन्द्रयादवः बिगकैटपरिदृश्यं प्रकृतिनिर्मितजलवायुसमाधानरूपं वर्णयन् भविष्ये राष्ट्रनिर्धारितयोगदानेषु प्रकृतिनिर्मितजलवायुक्रियायाः प्रमुखस्थानस्य आवश्यकताम् अपि उपदिशत्। सः अवदत् यत् भारतं विश्वस्य सप्तसु महाबिडालप्रजातिषु पञ्चानां गृहं अस्ति च संरक्षणक्षेत्रे निरन्तरं वैशिष्ट्यपूर्णानि सिद्धीनि साधितानि। भारतेन नियतकालात् पूर्वमेव व्याघ्राणां संख्या द्बिगुणा कृता एशियासीहालानां संख्या अपि निरन्तरं वर्धते। देशभरि व्याघ्रसिहंर्द्विपिनहिमद्विपिनां नियमितगणनां कुर्वन् भारतं विश्वस्य विस्तीर्णतमेषु वन्यजीवसङ्ख्यातन्त्रेषु एकं विकसितवान्। तदनन्तरं संरक्षितप्रदेशानां विस्तारः गलियारसुरक्षा च समुदायाधारितजीविकापोषणेन संरक्षणकार्यं सुदृढीकृतम्।
भूपेन्द्रयादवः आईबीसीए इति गठने वर्धमानसदस्यत्वम् अपि उल्लिख्य अवदत् यत् एषा पहल प्रधानमन्त्रिणः नरेन्द्रमोदिनः एकपृथ्वी एकविश्व एकभविष्य इति चिन्तनधारायाः आधारेण प्रवृत्ता। अद्यतनपर्यन्तं सप्तदशदेशाः औपचारिकरूपेण अस्मिन् सम्मिलिताः सन्ति अधिकत्रिंशद्देशाः च सम्मिलनाय इच्छां प्रकटितवन्तः। भारतस्य लक्ष्यं यत् सर्वे महाबिडालपरिसरयुक्तदेशाः अस्मिन् ऐलायन्से भागिनः भवेयुः तथा जैवविविध्यां जलवायुसुरक्षां च महत्त्वं ददतः राष्ट्राः अपि अस्मिन् सम्मिलन्तु इति।
---------------
हिन्दुस्थान समाचार