Enter your Email Address to subscribe to our newsletters

आकाशवाण्याः माध्यमेन वैदिक मंत्रोच्चारेण गुंजायमानाः भविषयन्ति मंदिरस्य वीथ्यः
वाराणसी, 18 नवंबरमासः (हि.स.)।
उत्तरप्रदेशस्य धार्मिकनगरी काशी वाराणसी इति प्रसिद्धा आगच्छन्तः पर्यटकाः अत्र धार्मिकाध्यात्मिकसंस्कृतिकं इतिहाससम्बद्धं च विस्तीर्णं ज्ञानं आकाशवाणीद्वारा श्रोतुं शक्नुवन्ति। योग्यादित्यनाथसरकारया अस्याः योजनायाः अन्तर्गतं कालभैरवमन्दिरचतुष्पथः मैदागिनचौराहं तथा श्रीकाशीविश्वनाथमन्दिरं गत्वा गोदौलियाचौराहं दशाश्वमेधघाटपर्यन्तं विशेषः श्रव्यप्रणाली स्थापितुं नियोजिता।
अनेन तन्त्रे निरन्तरं मन्त्रउच्चारणं धार्मिकध्वनयः काशीसम्बद्धाः च विविधानि विवरणानि प्रसारितानि भविष्यन्ति। कालभैरवमार्गे ॐ तथा ॐ नमः शिवाय इति ध्वनिः निरन्तरं निनदति। इयं परियोजना श्रद्धालुभ्यः आध्यात्मिकपरिवेशस्य अनुभवं दास्यति तथा काश्याः प्राचीनपरम्पराः आधुनिकतन्त्रज्ञानस्य साहाय्येन पुनरपि सजीवाः कर्तुं सहायकत्वं करिष्यति।
वाराणस्याः अष्टादश चिन्हितस्थलानि सुशोभीकरणार्थम् विहितानि सन्ति। उत्तरवाहिन्याः गङ्गायाः तटस्थे द्वादशज्योतिर्लिङ्गेषु प्रधाने श्रीकाशीविश्वनाथज्योतिर्लिङ्गे प्रतिष्ठिते। शिवत्रिशूले स्थितस्य अस्यां काश्यां सर्वं किञ्चन पुराणकथाभिः उपचितम्। इदानीं काश्याः प्रमुखकथाः विवरणानि च श्रव्यप्रणालीद्वारा प्रसारितानि भविष्यन्ति।
वाराणसीविकासप्राधिकरणस्य उपाध्यक्षः पूर्णबोरा इत्याख्यः अवदत् यत् सरकारेण निर्धारिते काशी एण्ड सारनाथ इति एक्शनप्लान अन्तर्गतं अष्टादशस्थलानां सौन्दर्यवर्धनार्थं जनानाम् अनुभवरूपवृद्धये च बहूनि कर्माणि प्रकल्पितानि। तेषु एकं कालभैरवमन्दिरचौराहात् मैदागिनचौराहं तस्मात् श्रीकाशीविश्वनाथमन्दिरद्वारसंख्या चतुर्थं गोदौलियाचौराहं दशाश्वमेधघाटपर्यन्तं श्रव्यप्रणालीस्थापनम् अस्ति।
प्रातः षड्वादनतः रात्रेः नववादनपर्यन्तं ॐ नमः शिवाय इति ध्वनिः मन्त्रउच्चारणं धार्मिकध्वनयः काशीसम्बद्धाः विवरणानि च प्रसारितानि भविष्यन्ति। वीडिए अपरसचिवः डा गुडाकेशशर्मा अवदत् यत् कालभैरवचौराहात् मन्दिरमार्गपर्यन्तं श्रव्यप्रणाली स्थापिता अस्ति यस्मिन् त्रिवारं ॐ इति ध्वनिः एकवारं च ॐ नमः शिवाय इति निनदति।
अस्य योजनायाः ध्येयम् अस्ति यत् पर्यटकान् श्रद्धालूांश्च काश्याः प्रमुखमन्दिरस्थानानि धार्मिकस्थलानि च विषये अवबोधं दद्यात् येन ते काश्याः धार्मिकइतिहासिकसंस्कृतिकमहत्त्वं सम्यक्प्रतिपद्येयुः। स्थानीयजनानाम् आगन्तुकानां च आध्यात्मिकानुभववर्धनं मन्त्रोच्चारणध्वनिभिः प्रदेशस्य वातावरणं धार्मिकभावयुक्तं कर्तुम् च काश्याः प्राचीनपरम्पराणां संरक्षणं च मुख्यलक्ष्यं भवति।
हिन्दुस्थान समाचार