केन्द्रसर्वकारेण वस्त्रोद्योगस्य कृते पीएलआई–योजनान्तर्गतं तृतीयपर्याये 17 नव-आवेदकान् अनुमोदितम्
नवदेहली, 18 नवम्बरमासः (हि.स.)। केन्द्रसर्वकारेण तृतीयचयनचक्रे वस्त्रोद्योगं प्रति उत्पादनाधारितप्रोत्साहनयोजनायाः (पीएलआई–स्कीम) अन्तर्गतं 17 नूतनानां आवेदकानाम् अनुमतिं दत्तवती। अस्य निर्णयस्य फलरूपेण एमएमएफ (मानव–निर्मित–रेशा) क्षेत्रे तथा प्राव
कपड़ा मंत्रालय के लोगो का प्रतीकात्‍मक चित्र


नवदेहली, 18 नवम्बरमासः (हि.स.)। केन्द्रसर्वकारेण तृतीयचयनचक्रे वस्त्रोद्योगं प्रति उत्पादनाधारितप्रोत्साहनयोजनायाः (पीएलआई–स्कीम) अन्तर्गतं 17 नूतनानां आवेदकानाम् अनुमतिं दत्तवती। अस्य निर्णयस्य फलरूपेण एमएमएफ (मानव–निर्मित–रेशा) क्षेत्रे तथा प्राविधिकवस्त्रक्षेत्रे प्रोत्साहनं भविष्यति। अस्य उपक्रमस्य फलतः निवेशः शीघ्रतरगत्या वर्धिष्यते, देशीयविनिर्माणं च प्रबलेन संवर्धितं भविष्यति। एतेन एमएमएफ–परिधाने, एमएमएफ वस्त्रे तथा प्राविधिकवस्त्रक्षेत्रेषु भारतस्य वैश्विकप्रतिस्पर्धात्मकता अपि वर्धिष्यते।

वस्त्रमन्त्रालयेन मंगलवासरे प्रकाशिते वक्तव्ये उक्तम् यत् वस्त्रोद्योगस्य उत्पादनाधारितप्रोत्साहनयोजनायाः तृतीयचरणे 17 नवानि आवेदनानि स्वीकृतानि। नवनिर्वाचितावेदकैः कुलम् 2,374 कोटिरूप्यकाणां निवेशप्रतिज्ञा कृताः। एतेषां परियोजनानां फलस्वरूपेण आगामिवर्षेषु 12,893 कोटिरूप्यकाणां विक्रयः, तथा प्रायः 22,646 जनानां रोजगारसृजनम् अपेक्षितम्। मंत्रालयेन उद्योगक्षेत्रस्य सहभागितां वर्धयितुं योजनायाः महत्त्वपूर्णाः परिवर्तनाः अपि अद्यतनकाले अधिसूचिताः। आवेदनप्रक्रियायै अन्तर्जालप्रवेशद्वारे 31 दिसंबर 2025 पर्यन्तं पुनः उद्घाटितः। इच्छुकसंस्थानः https://pli.texmin.gov.in/

इत्यत्र आवेदनं कर्तुं शक्नुवन्ति।

वस्त्रोद्योगाय पीएलआई योजना 24 सितम्बर 2021 तमे दिने अधिसूचिताः आसीत्, यस्य 10,683 कोटिरूप्यकाणां स्वीकृतव्ययः निर्दिष्टः। अस्य योजनायाः मुख्यः उद्देश्यः—एमएमएफ परिधानं, एमएमएफ–वस्त्रं, प्राविधिकवस्त्रोत्पादनं च वर्धयितुं, वस्त्रोद्योगं विश्वस्तरे प्रतिस्पर्धी कर्तुं, तथा पर्याप्तं रोजगारनिर्माणं कर्तुं। अस्य योजनायाः प्रथमद्वितीयचक्रयोः कुलम् 74 आवेदकानां प्रस्तावाः पूर्वमेव अनुमोदिताः।

हिन्दुस्थान समाचार / अंशु गुप्ता