Enter your Email Address to subscribe to our newsletters

- ग्रैंड फिनालेकार्यक्रमः पञ्चमे षष्ठे च दिसंबरमासे, विजेतृभ्यः लत्स्यते नगदराशिपुरस्कारः
वाराणसी, 18 नवंबरमासः (हि.स.)।
गौरवशालिना इतिहासेन साहित्येन संस्कृतेन च विख्याता भारतीयस्य उत्तरप्रदेशस्य पावनाध्यात्मनगरी काशी वाराणसी स्वानां बालसाहित्यकाराणां कृते महान् अवसररूपं विस्तीर्णं मंचं प्रदातुं सज्जा वर्तते। काशीसंसदस्यस्य च राष्ट्रस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणया नगरनिगमवाराणस्याः पक्षेण काशीसंसद्बालकविसम्मेलनम् द्विसहस्रपञ्चविंशतितमे वर्षे भव्यरूपेण आयोजनं भविष्यति। अस्य कार्यक्रमस्य मुख्यमुद्देश्यं बालानां काव्यप्रतिभायाः प्रोत्साहनं भवति। अस्मिन् स्पर्धासु विजेतृभ्यः आकर्षकं नगदं पारितोषिकं दास्यते इति नगरायुक्तेन हिमांशु नागपाल नाम्ना मङ्गलवासरे सूचितम्।
ते अवदन् यत् एषा प्रतियोगिता त्रिषु चरणेषु भविष्यति। प्रथमं विद्यालयस्तरे द्वितीयं ब्लॉकस्य जोनलस्तरस्य च मध्ये तृतीयं च अन्तिमं चरणं जिलास्तरे पञ्चमे षष्ठे च डिसेम्बरमासस्य भविष्यति। ग्रैण्ड्फिनाले इति परं विजेतारः नगदपुरस्कारैः प्रमाणपत्रैः च सम्मानिताः भविष्यन्ति। अस्मिन् आयोजनस्य माध्यमेन कक्षा षष्ठीभ्यः द्वादशपर्यन्तं छात्राणां काव्यमञ्चे स्वप्रतिभाप्रदर्शनाय सुवर्णसंधिः उपलब्धा भविष्यति।
नगरायुक्तेन अवोचि यत् अस्य आयोजनस्य फलरूपेण बालकानां प्रतिभा प्रकाशं यास्यति भविष्ये च तेषां प्रगतये मार्गप्रशस्तिः स्यादिति। तेनोक्तं यत् अस्याः प्रतियोगितायाः अन्तर्गतं नगरनिगमस्य निर्णायकमण्डलस्य च काशीसंसद्बालकविसम्मेलनम् द्विसहस्रपञ्चविंशतितमे वर्षे नियमानां संशोधनपरिवर्तनादिषु पूर्णाधिकारः स्यात्। इच्छुकाः प्रतिभागिनः प्रदत्तलिङ्कं क्युआरकोडं वा स्कान् कृत्वा शीघ्रं पंजीकरणंकर्तुं शक्नुवन्ति।
नगरायुक्तेन अवोचि यत् काशी स्वस्य गौरवशालीतिहासस्य कलायाः साहित्यस्य देवालयानां घाटानां हस्तकलायाः पर्वोत्सवानां च कृते विश्वव्यापि सुविख्याता अस्ति। अस्यां प्रतियोगितायां बालानां सांस्कृतिकचेतनां संवर्धयितुं विशेषविषयाः निर्धारिताः सन्ति। तत्र अविनाशकाशी संवर्ति काशी देशभक्ति मां गङ्गा महादेव इति विषयाः निर्दिष्टाः। अस्य स्पर्धायाः प्रथमपुरस्कारः पञ्चाशत्सहस्रं रूप्यकाणि द्वितीयः पुरस्कारः त्रिंशत्सहस्रं रूप्यकाणि तृतीयः पुरस्कारः विंशत्सहस्रं रूप्यकाणि निर्धारितम्।
नगरायुक्तेनोक्तं यत् एषा विशेषा प्रतियोगिता द्वयोर्वर्गयोः मध्ये भविष्यति। ऑनलाइन पंजीकरणं च चतुर्विंशतितमेन नवेम्बरदिने द्विसहस्रपञ्चविंशतिसंवत्सरे पर्यन्तं भविष्यति। छात्राः द्वयोः आयुगोत्रयोः विभक्ताः सन्ति। समूह एकः कक्षा षष्ठी सप्तमी अष्टमी समूह द्वितीयः कक्षा नवमी दशमी एकादशी द्वादशी इति। स्पर्धा बहुषु चरणेषु आयोजितव्या अस्ति। विद्यालयस्तरे षड्विंशतितमदिनात् अष्टाविंशतितमदिनपर्यन्तं नवेम्बरमासे ब्लॉकजोनलस्तरे प्रथमेन डिसेम्बरदिनेन तृतीयदिनपर्यन्तं स्पर्धा। अनन्तरं फाइनलजिलास्तरे पञ्चमे दिनाङ्के षष्ठे दिवसि च डिसेम्बरमासस्य भविष्यति।
महापौरः अशोककुमारतिवारीनामकः अवदत् यत् नगरनिगमवाराणसी प्रथमवारमिदं विशिष्टमायोजनं कुर्वन् अस्ति अतः सर्वेषाम् विद्यालयानां अभिभावकानां साहित्यप्रेमिणां च प्रति प्रार्थना यत् अधिकाधिकबालकानां पंजीकरणं कृत्वा एतत् गरिमापूर्णमायोजनं सफलं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार