छत्तीसगढ-विधानसभायाः एकदिवसीय विशेष-अधिवेशनम् अद्य आरब्धम्। अधिवेशनस्य आरम्भे दिवङ्गतपूर्वसदस्येभ्यः श्रद्धाञ्जलिः अर्पितः।
रायपुरम्,18 नवंबरमासः (हि.स.)। छत्तीसगढ़विधानसभा एकदिवसीयस्य विशेषसत्रस्य आरम्भः अद्य मङ्गलवासरे अभवत्। विशेषसत्रात् पूर्वं सभापतिः डॉक्टर्-रमनसिंहः दिवङ्गतपूर्वसदस्यानाम् उल्लेखं कृतवान्, यस्मिन् विषये सदस्यानां द्वारा रजनीताई-उपासने, बनवारीलाल-अग
छत्तीसगढ़ विधानसभा फाइल फाेटाे


रायपुरम्,18 नवंबरमासः (हि.स.)। छत्तीसगढ़विधानसभा एकदिवसीयस्य विशेषसत्रस्य आरम्भः अद्य मङ्गलवासरे अभवत्। विशेषसत्रात् पूर्वं सभापतिः डॉक्टर्-रमनसिंहः दिवङ्गतपूर्वसदस्यानाम् उल्लेखं कृतवान्, यस्मिन् विषये सदस्यानां द्वारा रजनीताई-उपासने, बनवारीलाल-अग्रवाल तथा राधेश्याम-शुक्ल इति तेषां योगदानं स्मृत्वा श्रद्धाञ्जलिः अर्पिता। उल्लेखनीयम् यत् अद्य प्राचीनभवने आयोजितं छत्तीसगढ़विधानसभायाः विशेषसत्रं अत्यन्तं विशिष्टम् आसीत्, यतः विधानसभायाः शीतकालीनसत्रं नूतनभवने आयोजितं भविष्यति। अस्मिन् विशेषसत्रे छत्तीसगढ़स्य पञ्चविंशतिवर्षीयं संसदीयइतिहासं स्मृत्यालम्ब्य पुनः अवलोक्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani