प्रधानमंत्री बुधवासरे प्रेषयति प्रधानमंत्रिकृषकसम्माननिधियोजनायाः 21तमः राशिः
प्रधानमंत्री नरेन्द्र मोदी


जयपुरम्, 18 नवंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे उन्नविंशतितमे नवम्बरमासे पीएमकिसानुत्सवदिवसस्य अवसरे कोयम्बटूरनगरे आयोजिते कार्यक्रमे पीएमकिसानसम्माननिधियोजनायाः एकविंशतितमकिष्टिरूपेण राष्ट्रस्य नवकोटिकृषकानां कृते अष्टादशसहस्रकोटिरूप्यकाणि कृषकानां कोषेषु हस्तान्तरीकरणं करिष्यति।

सहकारिताराज्यमन्त्री गौतमकुमारदक इत्यनेन उक्तं यत् राज्यस्य षट्षष्टिलक्षाधिकद्विसहस्रद्विसहस्रकर्षकानां कृते एकसहस्रत्रयविंशतिलक्षाधिकचत्वारिंशदधिककोटिरूप्यकानां हस्तान्तरणं भविष्यति। प्रत्येककृषकस्य खातं प्रति द्विसहस्ररूप्यकाणि निधीयन्ते।

योजने अन्तर्गताः पात्रकृषकाः प्रति वर्षं षट्सहस्ररूप्यकपरिमाणां राशिं त्रिसु समानकिष्टिषु लभन्ते। अद्य पर्यन्तं विंशतिकिष्टिभिः त्रीणि लक्षाधिक एकनवत्युत्तरकोटिसहस्र कोटिरूप्यकाणि हस्तान्तरीकृतानि।

राजस्थानराज्ये कृषकानां साहाय्यार्थं मुख्यमन्त्रीकिसानसम्माननिधियोजना अपि प्रवर्तिता अस्ति येन पीएमकिसानसम्माननिधियोजनायाः पात्रकृषकानां प्रति वर्षं त्रिसहस्ररूप्यकाणि अतिरिक्तरूपेण प्रदीयन्ते।

---------------

हिन्दुस्थान समाचार