प्रधानमन्त्री श्वः आन्ध्रप्रदेश-तामिलनाडुदेशयोः यात्रायां भविष्यन्ति, प्राकृतिक-कृषि-सम्मेलनस्य उद्घाटनं करिष्यति, पीएम–कृषि–योजनायाः देय-राशिं च मोक्षयिष्यति
— सत्यसाईं-बाबा इत्यस्य शतवर्ष-उत्सवेऽपि सहभागी भविष्यति, स्मारक-नाणकं डाक-टिकटं च प्रकाशयिष्यति। नवदेहली, 18 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी 19 नवम्बरमासे आन्ध्रप्रदेशं तामिलनाडुं च यात्रां करिष्यति। प्रातः 10 वादने ते आन्ध्रप्रदे
प्रधानमंत्री नरेंद्र मोदी


— सत्यसाईं-बाबा इत्यस्य शतवर्ष-उत्सवेऽपि सहभागी भविष्यति, स्मारक-नाणकं डाक-टिकटं च प्रकाशयिष्यति।

नवदेहली, 18 नवम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी 19 नवम्बरमासे आन्ध्रप्रदेशं तामिलनाडुं च यात्रां करिष्यति। प्रातः 10 वादने ते आन्ध्रप्रदेशस्य पुट्टपर्थी-प्रदेशस्थितं भगवतः श्रीसत्यसाईं-इत्यस्य धाम महासमाधिं च गत्वा श्रद्धाञ्जलिं निवेदयिष्यति। ततः प्रायः 10:30 वादने सत्यसाईं-बाबस्य शताब्दी-उत्सवे सहभागी भविष्यति, यत्र प्रधानमन्त्रिणा तस्य जीवन-उपदेशानाधारितं स्मारक-नाणकं डाक-टिकट-समूहं च प्रकाश्यते। अस्मिन् कार्यक्रमे सः सभाम् अपि सम्बोधयिष्यति । प्रधानमन्त्रीकार्यालयस्य वक्तव्येन, आन्ध्रप्रदेशस्य अनन्तरं प्रधानमन्त्री श्वः मध्याह्ने तामिलनाडोः कोयम्बत्तूर्-नगरं गमिष्यति, यत्र प्रायः 1:30 वादने ‘दक्षिणभारतीय-प्राकृतिक-कृषि-सम्मेलन’ नामकस्य कार्यक्रमस्य उद्घाटनं करिष्यति। अस्मिन् एव कार्यक्रमे प्रधानमन्त्रिणा देशस्य 9 कोटि-कृषकानां हिताय पीएम-किसान-योजनायाः 21तमः देय-राशिं मोक्षयिष्यते, यस्य राशि 18 सहस्र-कोटि-रूप्यकात्पि अधिका अस्ति।

19 तः 21नवम्बर यावत् सम्पन्नः दक्षिणभारतीयः प्राकृतिक-कृषि-सम्मेलनः तमिलनाडु-नेचुरल्-फार्मिंग-स्टेकहोल्डर्स्-फोरम् इत्यनेन आयोज्यते। अस्य सम्मेलस्य उद्देश्यं सतत-कृषेः, पर्यावरण-अनुकूल-कार्यशैलीनां, रसायन-रहित-कृषेः च संवर्धनम् अस्ति। कार्यक्रमे जैविक-इनपुट्, स्थानिक-प्रयुक्तयः, इको-फ्रेण्ड्ली-पैकिंग्, कृष्यनुयोगः, कृषक-उत्पादक-संघानां च विपण-संपर्कः विशेषतया परिगण्यते। अस्मिन् सम्मेलनऽध्यासे तामिलनाडु, पुदुच्चेरी, केरल, तेलङ्गाणम्, कर्नाटकं, आन्ध्रप्रदेशं च इत्येतैः दक्षिणभारतीय-राज्यैः सह 50 सहस्रात् अधिकाः कृषकाः, वैज्ञानिकाः, प्राकृतिक-कृषि-विशेषज्ञाः, अन्ये हितधारकाः च सहभागी भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता