Enter your Email Address to subscribe to our newsletters

नवदेहली, 18 नवंबरमासः (हि.स)। केन्द्रीयः कोयल-खानमन्त्री जी.किशन-रेड्डिः गुरुवासरे जयपुरे भारतीय-भूवैज्ञानिक-सर्वेक्षणस्य (जीएसआई) अन्तरराष्ट्रीय-समिनारस्य उद्घाटनं करिष्यति।
खान-मन्त्रालयस्य समाचारानुसारम् भारतीय-भूवैज्ञानिक-सर्वेक्षणम् (जीएसआई) राष्ट्रस्य प्रति स्वस्य १७५-वर्षीय-सेवाया भागरूपेण नवम्बर्-मासस्य २०–२१ तमे दिनाङ्के राजस्थान-अन्तरराष्ट्रीय-केन्द्रे (आरआईसी), जयपुरे ‘अतीतस्य अनुसंधानम्, भविष्यस्य निर्माणम् — जीएसआई के १७५ वर्ष’ इति विषयकम् अन्ताराष्ट्रिय-सम्मेलनम् आयोजयति।
अस्य अन्ताराष्ट्रिय-सम्मेलनस्य उद्घाटन-समारोहे खनिजमन्त्रालयस्य सचिवः पीयूष-गोयलः, राजस्थान-सर्वकारस्य खनिज-तैल-विभागस्य प्रधान-सचिवः टी. रविकान्तः च अपि उपस्थिताः भविष्यन्ति। अस्य सम्मेलनस्य नेतृत्वं जीएसआई-महानिदेशक- संरक्षकः असित्-साहा, तथा पश्चिम-क्षेत्रस्य अतिरिक्त-महानिदेशकः विभागाध्यक्षः च सम्मेलनस्य अध्यक्षः विजयः वी. मुगल इति जनाः करिष्यन्ति। सह वरिष्ठ-अधिकारीणः, प्रसिद्ध-भूवैज्ञानिकाः, देश-विदेशाभ्यागत-प्रतिनिधयः च अस्मिन् सम्मेलने भागं ग्रहीष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता