Enter your Email Address to subscribe to our newsletters



खड़गपुरम् (पश्चिममेदिनीपुर), 18 नवम्बरमासः (हि.स.)। देशस्य प्रथमः गृहमन्त्री तथा लौहमनाः सरदार-वल्लभभाई- पटेलस्य १५०वीं जयन्ती-अवसरे मंगलवारे खड्गपुरे एकं भव्यं ‘एकता-यात्रा’ निर्यातिता। एषः सामाजिकः कार्यक्रमः खरिदा-प्रदेशात् इन्दाबाजारं प्रति प्रायः चतुर्भिः किलोमीट्र-मार्गे सम्पन्नः। यात्रायां बहुसंख्ये बालकाः, युवा:, महिलाः, च सामाजिक-संस्थानीय-सदस्याः सम्मिलिताः। सर्वे प्रतिभागिनः हस्तयोः राष्ट्रध्वजं वहन्तः राष्ट्रीय-एकता-सामञ्जस्य-अखण्डता-सन्देशं ददन्तः अग्रे प्रस्थिताः। अस्मिन् कार्यक्रमे पूर्व-सांसदः दिलीप- घोषः सहिताः अनेकाः सामाजिक-कार्यकर्तारः, स्थानीय-प्रतिष्ठित-जनाः च उपस्थिताः आसन्। तिरङ्गं गृहित्वा निर्गतानां जनानां उत्साहं द्रष्टुं नगरवासिनः मार्गस्य पार्श्वे स्थित्वा यात्रायाः स्वागतं कुर्वन्तः दृष्टाः। सर्वमार्गे “भारत- मातायै जय” इति गगनभेदीनां घोषाणां निःस्वनः प्रतिध्वनितः।
आयोजकैः उक्तम् यत् सरदार-पटेलस्य जयन्ती केवलं स्मरण-दिवसः न, किन्तु राष्ट्रं एकता-दृढसंकल्पयोः सूत्रे संयोजयितुं पुनः संकल्प-ग्रहणस्य अपि अवसरः। लौहमनसः योगदानं स्मरन्तः जनाः देशहिते भाईचारे (भ्रातृभावे), सामाजिक-सद्भावे च दृढीकरणस्य शपथं स्वीकृतवन्तः। यात्रा शान्त्या अनुशासनेन च इन्दाबाजारं प्राप्य सम्पन्ना।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता