Enter your Email Address to subscribe to our newsletters

कोलकाता, 18 नवम्बरमासः (हि.स.)।
पश्चिमबङ्गराज्ये प्रचलितस्य मतदाता सूचीविशेषगहनपुनरीक्षणस्य एस आई आर प्रक्रियायाः सम्पादनं अस्य मासस्य अन्त्यदिनपर्यन्तं कर्तुं लक्ष्यं निर्धारितम् अस्ति। पश्चिमबङ्गस्य मुख्यनिर्वाचनाधिकृतः मनोजकुमारअग्रवाल इत्याख्यः अवदत् यत् विशेषगहनपुनरीक्षणस्य अन्तर्गतं मतदाता सूचीसंशोधनार्थं प्रदानाः प्रपत्राः प्रायः सर्वेषु मतदातृषु प्राप्ताः सन्ति। तस्य वचनुसारं एतेषां प्रपत्राणां संग्रहस्य डिजिटलीकरणस्य च कार्यं अस्य मासस्य षड्विंशतितम्यां तिथौ समाप्तुं निश्चितम् अस्ति तथा प्रक्रिया शीघ्रतया प्रवर्तते।
अधिकृतः अवदत् यत् अद्यापि अष्टिं लाखानि प्रपत्राणि सफलतया डिजिटलरूपे परिवर्तितानि। बीएलओ इति ख्यातानां मण्डलस्तरीयकार्यकर्तृणां भारं न्यूनं कर्तुं कार्यं च त्वरयितुं अन्यविभागेभ्यः अतिरिक्तकर्मचारिणः नियुक्तुम् सर्वेभ्यः ईआरओ इति कार्यालयेभ्यः निर्देशाः दत्ताः। येषु क्षेत्रेषु मतदातृसंख्या द्वादशशतानि अतीत्यास्ति तेषु स्थानेषु अपि अतिरिक्तबीएलओ नियुक्ताः।
मुख्यनिर्वाचनाधिकृतवचनुसारं राज्यसरकारायाः उद्घाटितनिविदापत्रस्य माध्यमेन सहस्रं डेटा एण्ट्री ऑपरेटर नियुक्तुं प्रक्रिया स्वीकृतेः प्रतीक्षायां वर्तते। तेषां संलग्नतया मतदाता सूचीसंशोधनकार्यं अधिकं वेगेन प्रवर्तिष्यते इति अपेक्षा।
वक्तव्ये निर्दिष्टम् अस्ति यत् मृतमतदातृणां स्थायिस्थानांतरितानां वा येषां नामानि द्वयोः तृयोः वा स्थानेषु दृश्यन्ते तेषां विषये यथार्थविवरणप्रदानं मतदातॄणां अधिकृतहस्ताक्षरकर्तॄणां च दायित्वम्। मिथ्याविवरणं दातुं प्रतिनिधित्वअधिनियमस्य 1950 इति वर्षस्य धारा 31 अन्तर्गतं दण्डनियमम् अस्ति यस्मिन् एकवर्षपर्यन्तं कारावासः दण्डः वा उभयं सम्भवम्। मिथ्यासत्यापनं कुर्वन्तः बीएलओ अपि दण्डनीयाः भवन्ति।
ये मतदाता अष्टाविंशतिः अक्टूबर् 2025 इति तिथेः पूर्वं सूच्यां नाम्नि विद्यमाने अपि प्रपत्रं न प्राप्तवन्तः ते 1950 अथवा 03322310850 इति दूरभाषसङ्ख्यां सम्पर्कं कुर्वन्तु 9830078250 इति व्हाट्सऐपसन्देशं प्रेषयितुं शक्नुवन्ति वा निर्दिष्टे ईमेलसङ्केते अपि विवरणं दातुं शक्नुवन्ति। प्रपत्रपूरणे साहाय्यं दातुं एते सर्वे उपायाः उपलब्धाः भविष्यन्ति।
मुख्यनिर्वाचनाधिकृतकार्यालयेन इदं अपि स्पष्टीकृतम् यत् एस आई आर अथवा अन्यस्यापि मतदाता सूचीसंशोधनस्य कार्यस्य निमित्तं दूरभाषे ओ टी पी इति कदापि न याच्यते। नागरिकाः एतादृशेषु कपटप्रयत्नेषु सावधानाः स्युः केवलं अधिकृतमाध्यमेषु एव विश्वासं कुर्वन्तु इति उपदिष्टम्।
हिन्दुस्थान समाचार