अमेरिकादेशस्य 2026 तमे ‘फीफा विश्वकप’ इत्यस्य निमित्तं ‘प्राथमिकता आधारितं वीजाप्रणाली’ इति नूतना व्यवस्था उद्घोषिता
वॉशिङ्ग्टनम्, 18 नवम्बरमासः (हि.स.)। अमेरिकदेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् 2026 तस्य ‘फीफा (फेडेरेशन ऑफ् फुट्बाल् एसोशिएशन्स्) विश्वकप’-सम्बद्धां प्राथमिकता युक्तां वीजाप्रणालीम् उद्घोषितवन्तः। अस्याः प्रणाल्याः माध्यमेन दीर्घकालं यावत् वीजाप्र
अमेरिकी राष्ट्रपति डोनाल्ड ट्रंप


वॉशिङ्ग्टनम्, 18 नवम्बरमासः (हि.स.)। अमेरिकदेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् 2026 तस्य ‘फीफा (फेडेरेशन ऑफ् फुट्बाल् एसोशिएशन्स्) विश्वकप’-सम्बद्धां प्राथमिकता युक्तां वीजाप्रणालीम् उद्घोषितवन्तः। अस्याः प्रणाल्याः माध्यमेन दीर्घकालं यावत् वीजाप्रतीक्षां कुर्वन्तः चिटीकाधारकाः शीघ्रं वीजालाभं प्राप्स्यन्ति।

एषः उपक्रमः विश्वकप-आयोजनकाले लक्षशः अन्ताराष्ट्रीयप्रशंसकानां प्रवेशं सुगमं कर्तुं कृतः। 2026 तमः विश्वकपः अमेरिकामेक्सिकोकनाडादेशैः संयुक्तरूपेण आयोजितः भविष्यति।

सोमवासरे ओवलकार्यालये फीफा-अध्यक्षेन जियानी इन्फैन्टिनो सह कृतायाः सभायाः अनन्तरं ट्रम्प् अवदन्

“राज्यविभागेन, होमलैण्ड्सुरक्षाविभागेन च कृतं कार्यं तथा भवति यत् सम्यक् परीक्षायाम् अनन्तरं समग्रविश्वात् आगच्छन्तः पादकन्दुकक्रीडाप्रशंसकाः आगामिग्रीष्मे अमेरिकदेशं सहजतया प्राप्तुं शक्नुवन्ति।”

ते अपि अवदन् यत् नूतना प्रणाली चिटीकाधारकान् वीसासाक्षात्कारेषु प्राथमिकतां दास्यति, या 2026 तः प्रारम्भे उपलब्धा भविष्यति।

एषः प्रयासः कार्यकारी-आदेशेन संस्थापितस्य व्हाइटहाउस इत्यस्य टास्कफोर्स् इत्यस्य सभानन्तरं जातम्। अस्य अध्यक्षः ट्रम्प् एव, उपाध्यक्षः जे.डी. वेंस्, कार्यकारीनिदेशकः एण्ड्र्यू गिउलियानी च।

2026 तस्य फीफा विश्वकप इत्यस्य ‘ग्रुप् स्टेज् ड्रॉ’ इति कार्यक्रमः आगामिमासे केनेडी–सेन्टर् इत्यत्र भविष्यति। अस्य आयोजनस्य निमित्तं आतिथेयनगराणां महत् आर्थिकलाभः भविष्यति।

ट्रम्प् तथा फीफा अध्यक्षः इन्फैन्टिनो इत्यस्य मध्ये सौहार्दपूर्णं सम्बन्धं पूर्वमेव आसीत्। ट्रम्प् तं अनेकवारं श्वेतगृहं आमन्त्रितवन्तः, च ‘मेटलाइफ् स्टेडियम्’–स्थले फीफा क्लब् विश्वकप–अन्तिमप्रतियोगितायाम् अपि उपस्थिताः आसन्। फीफा–अध्यक्षः इन्फैन्टिनो सभायां अवदन्— “सुरक्षा, सुरक्षितता च सफलस्य विश्वकप इत्यस्य प्रमुखावश्यकते।” राष्ट्रपतिः ट्रम्प् आतिथेयनगराणां सुरक्षाविषये अपि अवदन्— “भवन्तः जानन्ति, राज्यपालकाः स्वव्यवहारे परिष्कारं कर्तुं आवश्यकम्। महापौरः अपि उत्तरदायित्वं गृह्णीयुः। कैलिफोर्नियाराज्यस्य विषये समस्याः सन्ति—अपराधः, अग्निदुर्घटनाः, इत्यादयः। ते सम्यक् कार्यं न कुर्वन्ति।”

लॉस्–एन्जिलिस् विषये ते अवदन्—

“अहं लॉस्–एन्जिलिसं प्रति स्नेहं करोमि। यदि ते सहायता इच्छन्ति, तर्हि नेशनल् गार्ड् वा अन्यत् आवश्यकं सैन्यं तत्र प्रेषयितुं मम इच्छा अस्ति। अहं विश्वकपप्रतियोगितां उत्कृष्टं कर्तुम् इच्छामि।”

अस्य प्रणाल्याः अन्तर्गते, फीफामार्गेण क्रीत–चिटीकाधारकानां वीसासाक्षात्कारेषु प्राथमिकता प्राप्स्यते, येन दीर्घप्रतीक्षा न्यूनता प्राप्स्यति। गतमासे ट्रम्प् बोस्टननगरात् विश्वकप–मृत्सरी-स्थानं स्थानान्तरयितुं, तथा लॉस्–एन्जिलिसनगरात् 2028 ओलम्पिक्-आयोजनं अपाकर्तुं सचेतना दत्तवन्तः, यदि नगराणां सुरक्षा वा सिद्धता अपेक्षितस्तरे न भवेत् इति।

हिन्दुस्थान समाचार / अंशु गुप्ता