मुख्यमंत्री योगी पूरितवान् एसआईआर प्रक्रियायाः प्रपत्रं,जागरूकदायित्वपूर्णनागरिकस्य अददात् प्रेरणाम्
अधिकारिणां जनप्रतिनिधीनां च उपस्थितौ मुख्यमंत्री पूरितवान् प्रपत्रम् गोरखपुरम्, 18 नवंबरमासः (हि.स.) मुख्यमन्त्रिणा योगिना आदित्यनाथेन नागरिककर्तव्यस्य लोकतान्त्रिकचेतनायाश्च उदाहरणं दत्त्वा मंगलवासरे प्रातःकाले गोरखनाथमन्दिरस्य उपवेशनकक्षे मतद
मुख्यमंत्री योगी आदित्यनाथ विशेष गहन पुनरीक्षण (एसआईआर) प्रक्रिया के अंतर्गत गोरखपुर में अपना गणना प्रपत्र स्वयं भरकर अधिकारियों को देते हुए।


अधिकारिणां जनप्रतिनिधीनां च उपस्थितौ मुख्यमंत्री पूरितवान् प्रपत्रम्

गोरखपुरम्, 18 नवंबरमासः (हि.स.)

मुख्यमन्त्रिणा योगिना आदित्यनाथेन नागरिककर्तव्यस्य लोकतान्त्रिकचेतनायाश्च उदाहरणं दत्त्वा मंगलवासरे प्रातःकाले गोरखनाथमन्दिरस्य उपवेशनकक्षे मतदाता सूच्याः विशेषगहनपुनरीक्षणप्रक्रियायाः प्रपत्रं पूरयित्वा सम्पूर्णीकृतम्। मुख्यमन्त्री गोरखपुरनगरविधानसभाक्षेत्रस्य झूलेलालमन्दिरस्य समीपे स्थिते कन्याप्राथमिकविद्यालये मतदानकेन्द्रस्य द्विशतत्रिंशदधिके त्रयोविंशतितमे बूथे पञ्जीकृतमतदाता अस्ति।

विदितं भवतु यत् भारतनिर्वाचनायोगेन मतदातासूचीम् अधिकसटीकाम् अद्यतनां पारदर्शिनीं च कर्तुं नवम्बरमासस्य चतुर्थतारिखतः डिसेम्बरमासस्य चतुर्थतारिखपर्यन्तं विशेषगहनपुनरीक्षणनाम अभियानं प्रचाल्यते। अस्यक्रमे मंगलवासरे बीएलओ जनः गोरखनाथमन्दिरं आगत्य मुख्यमन्त्रिणे फॉर्म प्रदत्तवान् यं मुख्यमन्त्रिणा पूरयित्वा तस्मै निवेदितम्।

अयं विशेषगहनपुनरीक्षणः मतदातासूचिं शुद्धां सटीकां च कर्तुं संविधानस्य अनुच्छेदद्विशत् षट् विंशत्याः अन्तर्गतं मतदातार्हतानां यथायोग्यं प्रयोगं सुनिश्चितुं च आयोजितः अस्ति। मुख्यमन्त्रिणा स्वयं प्रक्रियायां सम्मिलितेन एषः सन्देशः दीयते यत् मतदातासूचिं सम्यक् अद्यतनां च कर्तुं केवली प्रशासनिकप्रक्रिया न भवति अपितु प्रत्येकनागरिकस्य अधिकारः कर्तव्यं च अस्ति। एतादृशी पहल मतदाता जागरूकतां दृढीं करोति लोकतन्त्रं च अधिकं सहभागिम्।

अस्मिन् अवसरे जिलाधिकारी दीपकमीनाः तहसीलदारसदरज्ञानप्रतापसिंहः भाजपा महानगरसंयोजकः राजेशगुप्तः नगरनिगमबोर्डस्य उपसभापतिः पार्षदश्च पवनत्रिपाठी जीडीए बोर्डस्य सदस्यः दुर्गेशबजाज इत्येते उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार