राष्ट्रियैकतायाः संदेशं ददाति रन फॉर यूनिटीति
हाथरसः, 18 नवम्बरमासः (हि.स.)। मङ्गलवासरे सरदारवल्लभभाईपटेलस्य शतपञ्चाशतितम्यां जयंतीसमारोहस्य अवसरि रन फॉर यूनिटी इति कार्यक्रमस्य आयोजनं कृतम्। प्रदेशस्य मन्त्रिपरिषद्सदस्या बेबीरानीमौर्या देवी देवगार्डन इत्यस्मात् स्थलात् हरितपताकां दत्वा अस्
राष्ट्रीय एकता का संदेश देती है रन फॉर यूनिटी


हाथरसः, 18 नवम्बरमासः (हि.स.)।

मङ्गलवासरे सरदारवल्लभभाईपटेलस्य शतपञ्चाशतितम्यां जयंतीसमारोहस्य अवसरि रन फॉर यूनिटी इति कार्यक्रमस्य आयोजनं कृतम्। प्रदेशस्य मन्त्रिपरिषद्सदस्या बेबीरानीमौर्या देवी देवगार्डन इत्यस्मात् स्थलात् हरितपताकां दत्वा अस्य दौडस्य शुभारम्भं कृतवती।

कार्यक्रमं सम्बोध्य मन्त्री बेबीरानीमौर्या अवदत् यत् सरदारपटेलेन दृढसंकल्पबलात् देशस्य पञ्चषट् द्विशताधिकाः रियासताः एकत्रीक्रियन्त इति। सा अवदत् यत् रन फॉर यूनिटी इति आयोजनम् राष्ट्रीयैक्यस्य अनुशासनस्य राष्ट्रधर्मस्य च संदेशं ददाति। भारतस्य वर्तमानप्रगति सरदारपटेलस्य दूरदृष्टेः राष्ट्रनिर्माणकार्यस्य च फलमेव इति सा उक्तवती। युवान् प्रति आह्वानं कृतवती यत् राष्ट्रहिताय सक्रियभूमिकां वहन्तु एकतायाः संदेशं च सर्वेषां मध्ये प्रसारयन्तु।

अस्य विधानसभा स्तरीयस्य कार्यक्रमस्य प्रसङ्गे प्रदेशोपाध्यक्षः दिनेशशर्मा भाजपा जिलाध्यक्षः शरदमाहेश्वरी विधायकौ प्रदीपचौधरी वीरेंद्रसिंहराणा ब्लॉकप्रमुखः रामकिशन नगरपञ्चायतेः अध्यक्षाः हस्तिनापुरनगरपालिकाध्यक्ष्या श्वेतादिवाकर रालोदजिलाध्यक्षः श्यामसिंहप्रधान समाजसेवी राजा गरुडध्वजश्च उपस्थिताः आसन्। तेषां सह भाजयुमो जिलाध्यक्षः अनुरागाग्निहोत्री अनिलपाराशरः प्रीतीचौधरी धर्मेन्द्रगौतमः कर्मवीरसिंहअग्रवालः जागेन्द्रचौधरी राजेन्द्रचौधरी लक्ष्मणप्रधानः गीता गौडः शकुन्तलगौतमः सर्वे मण्डलाध्यक्षाः विविधप्रकोष्ठाध्यक्षाश्च बहुलसंख्यककार्यकर्तृभिः नागरिकैश्च सह सहभागी अभवन्त।

रन फॉर यूनिटी इति दौडः मोहल्ला आग्रागेट इत्यस्मात् आरभ्य जवाहरबाजारं चौकबाजारं सस्यमण्डीस्थलम् रोडवेज् बस्स्थानकं च अतीत्य प्राइवेट् बस्स्थानकपर्यन्तं प्राप्ता ततः विनोबनगरचौराहात् पुनरागत्य परिसरं प्रति गत्वा सभा रूपेण परिवर्तिता।

कार्यक्रमस्य संचालनं सुनीलगौतेन कृतम्। अस्मिन् रन फॉर यूनिटी इति कार्यक्रमे सादाबादइण्टरकॉलेज् श्रीमतीरामश्रीदेवी कन्याइण्टरकॉलेज् एस आर डी पब्लिक् स्कूल् इत्यादीनां छात्रच्छात्राः नगरस्य च बहवः नागरिकाः सहभागी अभवन्त।।

---------------

हिन्दुस्थान समाचार