भारत विकास परिषद् 14 दिसम्बर दिनांके 60 दिव्यांगजनेषु प्रयोक्ष्यते कृत्रिमम् अंगम्
पूर्वी चंपारणम्,19 नवंबरमासः (हि.स.)।भारतविकासपरिषदः उत्तरबिहारप्रान्ते पूर्वीक्षेत्रे भारतविकासपरिषद् दिव्याङ्गन्यास पुणेस्थितेन सहकारमार्गदर्शनेन च षष्टिदिव्याङ्गजनानां प्रति निःशुल्कं अतीवअत्याधुनिकं कृत्रिमहस्तपादं पोलियोकैलिपरं च प्रदास्यते इत
शिविर की जानकारी देते परिषद के पदाधिकारी


पूर्वी चंपारणम्,19 नवंबरमासः (हि.स.)।भारतविकासपरिषदः उत्तरबिहारप्रान्ते पूर्वीक्षेत्रे भारतविकासपरिषद् दिव्याङ्गन्यास पुणेस्थितेन सहकारमार्गदर्शनेन च षष्टिदिव्याङ्गजनानां प्रति निःशुल्कं अतीवअत्याधुनिकं कृत्रिमहस्तपादं पोलियोकैलिपरं च प्रदास्यते इति सूचना प्रदत्ता। एतस्याः सूचनायाः प्रसङ्गेन भारतविकासपरिषदस्य प्रान्तीयमहासचिवः सुधीरकुमारसिंह अवदत् यत् जीवनमार्गे अग्रे गन्तुं यतमानानां जनानां देहबाधा कदाचित् विघ्नं करोति, मनः अपि विषण्णं भवति। दुर्घटनया आघातेन, जन्मजातविकृत्या, कुष्ठरोगेण वा अन्याभिः गभीराभिः व्याधिभिः ये मनुष्याः हस्तं पादं वा नष्टवन्तः, तेषां जीवनस्य नूतनकदम्प्राप्तये साहसं धैर्यं च भारतविकासपरिषद् ददाति।

उल्लेखनीयम् यत् भारतविकासपरिषद् दिव्याङ्गन्यासः पुणेस्थः मार्गदर्शकः च आगामी दिसंबरमासस्य चतुर्दशदिने मुजफ्फरपुरस्थे एलएसकॉलेजनामकस्वास्थ्यकन्द्रे दिव्याङ्गसेवाशिविरं आयोजितुं निश्चितवान्। ते अवदन् यत् ये केचन दिव्याङ्गबान्धवाः शिविरस्य अङ्गं भवितुमिच्छन्ति ते शीघ्रं स्वपञ्जीकरणं कुर्वन्तु। आगच्छतां प्रथमानां क्रमस्य अधारेण केवलं षष्टिदिव्याङ्गजनानां कृत्रिमाङ्गदानं भविष्यति। यदि पञ्जीकरणं अधिकं भविष्यति तर्हि यथायोग्यं तेषां नामानि परशिविराय सुरक्षितानि स्थास्यन्ति।

ते अवदन् यत् परिषदस्य लक्ष्यं देशस्य सामाजिकसांस्कृतिकविकासाय चेतनां जागरयितुमस्ति। अस्य संस्थायाः प्रयोजनानि समाजस्य दीनानां निरुपायजनानां च साहाय्यं बालकेषु संस्कारजागरूकता च, नारीणां स्वावलम्बनाय प्रशिक्षणदानेन आत्मनिर्भरता चेति मुख्यरूपेण सन्ति।

अस्य कार्यक्रमस्य मुख्यसंयोजकः विमलकिशोरउप्पल इत्यस्य संयोजनेन उत्तरबिहारप्रान्तस्य रक्सौलशाखां सहिताः सर्वाः शाखाः महद्भागीदारीं दर्शयन्त्यः मानवतायै समर्पितं कार्यक्रमम् सम्पादयिष्यन्ति। ते अवदन् यत् परिषद् दीर्घदृष्ट्या दिव्याङ्गकेन्द्रस्य स्थापनायामपि प्रयत्नशीलाऽस्ति।

भारतविकासपरिषद् रक्सौलशाखायाः रजनीशप्रियदर्शी अवदन् यत् परिषद् सेवायाः सहयोगस्य च भावेन निःशुल्कं दिव्याङ्गसेवाशिविरं निरन्तरं आयोजयति। तेन फलतः पोलियोग्रस्ताः हस्तपादच्छिन्नाः जनाः उज्ज्वलजीवनमार्गं प्राप्तुं शक्नुवन्ति, ते भारीभारं वहितुं लेखितुं भोजनं कर्तुं सुगमनं च प्राप्तुं शक्नुवन्ति।

अतः एते दिव्याङ्गजनाः शीघ्ररूपेण अयं अवसरं ग्रहित्वा निम्नोक्तसंर्पकसूत्रेषु ९४३१४०३५७९ ९४३१२३८४५५ ८७८९१४१५१२ ९७०८०११७०२ इत्येषु सम्पर्कं कृत्वा स्वपञ्जीकरणं सुनिश्चितम् ।

---------------

हिन्दुस्थान समाचार