Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम् , 19 नवंबरमासः (हि.स.)। केन्द्रीयशिक्षणमन्त्रिणा धर्मेन्द्रप्रधानेन महान् वीराङ्गना राणी लक्ष्मीबाय्याः जयन्त्यवसरे तस्यै श्रद्धाञ्जलिः अर्पिता। सः अवदत्— “साहस-स्वाभिमान-अदम्यपराक्रमाणां प्रतिमूर्ति महती वीराङ्गना राज्ञीलक्ष्मीबायीम् अहं श्रद्धया नमामि।”
बुधवासरे सोशल्-मीडियायाः X इति माध्यमे सः लिखितवान् यत्— मातृभूमेः संरक्षणार्थं राणी लक्ष्मीबाय्याः अद्वितीय-शौर्यम्, अटल-संकल्पश्च भारतीय-नारी-शक्तेः गौरवं नूतन-उन्नतिं दत्तवन्तौ। राणी लक्ष्मीबाय्याः जीवनकथा प्रत्येकस्य भारतीयस्य हृदि राष्ट्र-स्वाभिमानस्य दीपिकां प्रदीप्तां करोति। तस्याः नेतृत्वं, दूरदृष्टिः, राष्ट्रभक्तिश्च स्वाधीनतासङ्ग्रामे नूतनां चेतनाम् उत्पादितवन्तः, आगामिपीढीः च राष्ट्ररक्षण-पन्थानि अनुगन्तुं प्रेरितवन्तः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता