Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 19 नवंबरमासः (हि.स)।
केंद्रीय वित्त तथा निगमकार्य मंत्रीनिर्मला सीतारमणया बुधवारी नूतनदिल्लीमध्ये आगामिकेंद्रीयराजस्वद्विसहस्र षट् विंशत्यधिक सप्तविंशतितमं सम्बन्धि बैंकिंग वित्तीयसेवा बीमाक्षेत्र विशेषज्ञैः सह कृतस्य सप्तमस्य पूर्वबजत्संवादस्य बैठकाध्यक्षता कृता। वित्तमंत्रालयेन प्रकाशिते वक्तव्ये उक्तं यत् बैंकिंग वित्तीयसेवा बीमाक्षेत्रविशेषज्ञैः सह कृतः अयं सप्तमः पूर्वबजत्संवादः आसीत् यस्मिन् केंद्रीयवित्तराज्यमन्त्री पंकज चौधरी आर्थिककार्यविभागस्य सचिवो भारतसरकारस्य मुख्य आर्थिक उपदेष्टा वित्तीयसेवाविभागस्य वरिष्ठाधिकारी च अपि उपस्थिताः।
केंद्रीयवित्तराज्यमन्त्री पंकज चौधरी प्रकाशिते वक्तव्ये उक्तवान् यत् अद्य राष्ट्रीयराजधानी नूतनदिल्लीमध्ये वित्त निगमकार्य मन्त्रिणी निर्मला सीतारमण अध्यक्षता कृतायां पूर्वबजत्संवादबैठकायां मम सहभागिता अभवत्। अस्मिन् संवादे बैंकिंग वित्त बीमानां क्षेत्रेभ्यः आगताः प्रतिनिधयः उपस्थिताः आसन्।
पंकज चौधरी उक्तवान् यत् अस्मिन् संवादे आगामिनि बजटसंबन्धि प्रमुखाः वित्तीयसुधाराः बैंकिंग वित्त बीमाक्षेत्रेषु सम्भाव्यमानाः अवसराः तेषां समुत्थिताः चुनौतयः च विषये विस्तृतं विमर्शः अभवत्। अस्य मन्थनस्य सकारात्मकः प्रभावः नूनं बजटद्विसहस्र षट् विंशतिः मध्ये प्रतिफलितः भविष्यति।
---------------
हिन्दुस्थान समाचार