अयोध्या-नगर्यां राममन्दिरस्य शिखरेन सहैव अन्येषु सप्तसु मन्दिरेषु अपि धर्मध्वज-स्थाप्यिष्यते - नृपेन्द्रमिश्रः
25 नवम्बरे ध्वजारोहण-समये श्रद्धालवः रामलला इत्यस्य दर्शनं न प्राप्स्यन्ति। अयोध्याम्, 19 नवम्बरमासः (हि.स.)। रामनगर्याम् आगामिने 25 नवम्बर-दिवसे राममन्दिरस्य शिखरे धर्मध्वज-पताका-ध्वजारोहणस्य ऐतिहासिकः कार्यक्रमः भविष्यति। अस्य विषये राममन्दिर-नि
श्री राम जन्मभूमि नवीन चित्र


25 नवम्बरे ध्वजारोहण-समये श्रद्धालवः रामलला इत्यस्य दर्शनं न प्राप्स्यन्ति।

अयोध्याम्, 19 नवम्बरमासः (हि.स.)। रामनगर्याम् आगामिने 25 नवम्बर-दिवसे राममन्दिरस्य शिखरे धर्मध्वज-पताका-ध्वजारोहणस्य ऐतिहासिकः कार्यक्रमः भविष्यति। अस्य विषये राममन्दिर-निर्माण-समित्याः अध्यक्षः नृपेन्द्रमिश्रः बुधवासरे अवदत् यत् शेषावतार-मन्दिरे तथा परिकोट-प्रदेशस्थेषु षट्सु पंचायती-मन्दिरेषु अपि ध्वज-पताका आरोपिता भविष्यति। ध्वजारोहण-कार्यक्रमस्य समये प्रधानमन्त्री नरेन्द्रमोदी प्रायः चतुरहोरा पर्यन्तम् अयोध्यायां प्रवत्स्यति।

ते अवदन् यत् धर्मध्वज-पताकायाः द्विवारं सफलः परीक्षणः कृतः। सर्वाः तांत्रिक-सज्जाः राममन्दिर-निर्माण-समित्याः पर्यवेक्षणे सम्पन्नाः। पताका 11 मीटर-विशाला 22 मीटर-दीर्घा चास्ति, यया रज्जुना, पुलिना, यन्त्रेण च शिखरपर्यन्तं नयिष्यते। सम्पूर्णस्य प्रक्रियायाः निरीक्षणार्थं विशेषज्ञ-समूहम् नियोजितम् अस्ति।

मुख्यमंत्री योगी आदित्यनाथः अयोध्यां प्राप्य सुरक्षाव्यवस्थाः निरीक्षितवान्। मुख्यमंत्री अधिकारीन् आज्ञापयत् यत् सुरक्षायां काचित् अपि त्रुटिः न भवेत्। 25 नवम्बरस्य ध्वजारोहण-निमित्तं श्रद्धालवः रामललस्य दर्शनं न प्राप्स्यन्ति। 26 नवम्बर-दिवसे विशाल-संख्यायाः श्रद्धालूनाम् आगमनात् प्रशासनस्य कृते महती कठिनता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता