व्यापारे, प्रौद्योगिक्यां निवेशे उच्च स्तरीय वार्तायै इजराइलं गमिष्यति पीयूष गोयलः
- तेल अवीवस्य यात्रायां भारत-इजराइल एफटीए समीक्षाहेतवे संभावना नवदिल्‍ली, 19 नवंबरमासः (हि.स)।केंद्रीयवाणिज्यऔद्योग्यमन्त्री पीयूषगोयल इस्राएलस्य अर्थव्यवस्थाऽऔद्योग्यमन्त्रिणा नीरबरकत इत्यनेन प्रदत्तनिमन्त्रणेन विंशतितमदिनाङ्कात् द्वाविंशतितमद
केंद्रीय वाणिज्‍य एवं उद्योग मंत्री पीयूष गोयल का फाइल फोटो


- तेल अवीवस्य यात्रायां भारत-इजराइल एफटीए समीक्षाहेतवे संभावना

नवदिल्‍ली, 19 नवंबरमासः (हि.स)।केंद्रीयवाणिज्यऔद्योग्यमन्त्री पीयूषगोयल इस्राएलस्य अर्थव्यवस्थाऽऔद्योग्यमन्त्रिणा नीरबरकत इत्यनेन प्रदत्तनिमन्त्रणेन विंशतितमदिनाङ्कात् द्वाविंशतितमदिनाङ्कपर्यन्तं त्रिदिनात्मकायां इस्राएलदेशस्य अधिकृतयात्रायां भविष्यन्ति। तेलअवीवपुर्यां त्रिदिवसयात्राकाले प्रस्तावितस्य भारतइस्राएलमुक्तवाणिज्यसम्झौतस्य प्रगतेः समीक्षा करणीयेत्याशा वर्तते। गोयलसहितम् सीआईआई फिक्की एसोचैम स्टार्टअपइन्डिया इत्यादीनां व्यापारप्रतिनिधिदलमपि गमिष्यति।

वाणिज्यऔद्योग्यमन्त्रालयस्य वक्तव्येन अनुसारं गोयल स्वयम् अस्याः यात्रायाः समये इस्राएलदेशस्य उच्चनेतृत्वेन सह उच्चस्तरीय द्विपक्षीय चर्चाः करिष्यन्ति। ते स्वस्य समकक्षेण अर्थव्यवस्थाऽऔद्योग्यमन्त्रिणा नीरबरकत इत्यनेन सहापि चर्चां करिष्यन्ति। अन्यैः केषुचित् मन्त्रिभिः सहापि ते संवादं करिष्यन्ति। एषा चर्चा व्यापारनिवेशसम्बन्धानां सुदृढीकरणे कृषि जले रक्षा उदीयमानप्रौद्योगिक्यः जीवनविज्ञानं पायाभूतसुविधाः उन्नतनिर्माणम् इत्येषु मुख्येषु क्षेत्रेषु सहयोगवृद्धौ च केन्द्रिताभविष्यति। स्टार्टअपक्षेत्रमिहापि उभयदेशीयव्यवसायानां मध्ये उत्तमसहयोगाय अवसराः अनुसन्धास्यन्ते।

मन्त्रालयस्य कथनानुसारं पीयूषगोयल इस्राएलदेशे षष्टिसदस्यकव्यापारप्रतिनिधिमण्डलस्य नेतृत्वं करिष्यन्ति। तत्र ते द्विपक्षीयवाणिज्यनिवेशनवोन्मेषान् उन्नेतुं कथं शक्यते इति विषयेषु राजनेतृभिः व्यवसायिकैश्च सह विमर्शं करिष्यन्ति। प्रस्तावितस्य भारतइस्राएलमुक्तवाणिज्यसम्झौतस्य प्रगतिः अपि तत्र समीकर्तुं शक्यते। गोयल भारतइस्राएलवाणिज्यसम्मेलने अपि भागं ग्रहीष्यन्ति यस्मिन् उभयपक्षीयमुख्यव्यापारसंघाः उद्योगक्षेत्रस्य च प्रतिनिधयः सम्मिलिष्यन्ति।

केंद्रीयवाणिज्यऔद्योग्यमन्त्रिणः एषा यात्रा द्वाविंशतितमदिनाङ्के समाप्तिर्भविष्यति।

---------------

हिन्दुस्थान समाचार