राज्ञ्याः लक्ष्मीबाय्याः जयन्त्यवसरे मुख्यमन्त्रिणा सुक्खू-महाभागेन श्रद्धाञ्जलिः अर्पिता
शिमला, 19 नवंबरमासः (हि.स.)। प्रथमस्वातन्त्र्यसमरस्य महान् वीराङ्गना असाधारणसाहसस्य च प्रतीका राणी लक्ष्मीबायाः जयन्त्यवसरे मुख्यमन्त्रिणा ठाकुरसुखविन्द्रसिंहेन तासां प्रति सादरं नमनं विनम्रश्रद्धाञ्जलिश्च अर्पिता। मुख्यमन्त्रिणा एकस्मिन् सामाजिकसञ
रानी लक्ष्‍मीवाई।


शिमला, 19 नवंबरमासः (हि.स.)। प्रथमस्वातन्त्र्यसमरस्य महान् वीराङ्गना असाधारणसाहसस्य च प्रतीका राणी लक्ष्मीबायाः जयन्त्यवसरे मुख्यमन्त्रिणा ठाकुरसुखविन्द्रसिंहेन तासां प्रति सादरं नमनं विनम्रश्रद्धाञ्जलिश्च अर्पिता। मुख्यमन्त्रिणा एकस्मिन् सामाजिकसञ्चारसन्देशे उक्तम्— राणी लक्ष्मीबायाः अमरा गाथाः भारतीयइतिहासे स्वर्णाक्षरैः लिखिताः, तच्च तस्याः अदम्यं साहसम् आगामिपीढीषु राष्ट्रभक्तेः वीर्यस्य च प्रेरणां दास्यति। तेन उक्तं यत्— राणी लक्ष्मीबायाः जीवनम् संघर्षस्य, समर्पणस्य मातृभूमेः प्रति च अटूटप्रेम्णः अनुपममुदाहरणम् अस्ति, यत् सम्पूर्णदेशेन सदैव गौरवेन स्मरिष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता