भारतीयवायुसैन्यविज्ञानसंगठनस्य ६४तमं वार्षिकसम्मेलनं २०–२१ नवम्बरदिनाङ्कयोः बेंगलूरु नगरे आयोजितं भविष्यति
प्रथमे दिवसे वायुसेनामुख्यः एयर्-चीफ्-मार्शल् ए.पी. सिंहः अधिवेशनस्य उद्घाटनम् करिष्यन्ति। नवदेहली, १९ नवम्बरमासः (हि.स.)। इण्डियन् सोसायटी ऑफ् एयरोस्पेस् मेडिसिन् (आइएसाम्) इत्यस्य 64तमं वार्षिकम् अधिवेशनम् २०–२१ नवम्बरमासयोः बङ्गलुरोः स्थिते इन्
भारतीय एयरोस्पेस मेडिसिन सोसायटी


प्रथमे दिवसे वायुसेनामुख्यः एयर्-चीफ्-मार्शल् ए.पी. सिंहः अधिवेशनस्य उद्घाटनम् करिष्यन्ति।

नवदेहली, १९ नवम्बरमासः (हि.स.)। इण्डियन् सोसायटी ऑफ् एयरोस्पेस् मेडिसिन् (आइएसाम्) इत्यस्य 64तमं वार्षिकम् अधिवेशनम् २०–२१ नवम्बरमासयोः बङ्गलुरोः स्थिते इन्स्टिट्यूट् ऑफ् एयरोस्पेस् मेडिसिन् (आइआम्) इति संस्थाने भविष्यति। वायुसेनामुख्यः एयर्-चीफ्-मार्शल् ए.पी. सिंहः अस्य अधिवेशनस्य उद्घाटनम् करिष्यन्ति। अधिवेशने देशविदेशाभ्यां समागताः प्रायः त्रिशतं प्रतिनिधयः भागं ग्रहीष्यन्ति। डीआर्डीओ-प्रयोगशालानां च इसरो-प्रधानवैज्ञानिकानां सह सम्बद्धसंस्थानानां संशोधकाः अपि तत्र आगमिष्यन्ति।

अस्मिन् कार्यक्रमे इतिहासकारः अञ्चित्-गुप्ता “एयर्-मार्शल् सुब्रतो मुखर्जी स्मारकव्याख्यानम्” दास्यन्ति। एयर्-वाइस्-मार्शल् दीपकगौडः (सेवानिवृत्तः) “एयर्-वाइस्-मार्शल् एम्.एम्. श्रीनागेश स्मारक-व्याख्यानम्” करिष्यन्ति। अधिवेशनस्य अन्यतमा महत्वपूर्णा व्याख्यान-शृङ्खला ‘जेमी होर्मूसजी फ्रामजी मानेकशॉ पैनल्’ नामकः अस्ति, यस्मिन् पिक्सल् एयरोस्पेस् टेक्नोलॉजीस् संस्थायाः सीईओ संस्थापकः अवैस-अहमदः, इण्डिगोविमानसंस्थायाः मुख्यउड्डयनसुरक्षाधिकारी कैप्टन् ध्रुवरेब्बाप्रगडा इत्यादयः प्रसिद्धविशेषज्ञाः व्याख्यानानि दास्यन्ति।

अधिवेशनस्य विषयः — “एयरोस्पेस्-चिकित्सायां नवोन्मेषः : अनन्तसंभवनाः” अस्ति, यः विषयः वैमानिकानां सुरक्षाकार्यकुशलयोः आवश्यकताः समीकर्तुं एयरोस्पेस्-चिकित्सकानां नूतनसंकल्पनाः प्रकाशयति। अधिवेशने शताधिकाः वैज्ञानिकप्रबन्धाः प्रस्तूयन्ते, येन प्रतिनिधयः वैज्ञानिकचर्चाप्रस्तुत्यः, संजालसंधानावसराः च लप्स्यन्ते। अस्य उद्देश्यं भारते एयरोस्पेसचिकित्सानुसन्धानस्य नीतिश्च भविष्ये किंरूपं स्यात् इति विनिर्मितुम् अस्ति।

रक्षा-मन्त्रालयस्य अनुसारेण, १९५२ तमे वर्षे स्थापितं इण्डियन् सोसायटी ऑफ् एयरोस्पेस् मेडिसिन् भारतदेशे एयरोस्पेस्-चिकित्सायाः ज्ञानस्य अभ्यासस्य च प्रसारणाय समर्पिता एकैव पञ्जीकृता संस्था अस्ति। एषा विशिष्टा प्रमुखा च संस्था अन्तरिक्षउड्डयनकार्यक्रमस्य मानवीयपक्षान् सहितम्, सैन्यनागरिकविमानीयचिकित्साविषये कार्यं करोति। अनुसन्धानस्य प्रगत्यै, ज्ञानविनिमयस्य प्रोत्साहनाय, विमानीयचिकित्सीयसामस्येषु समाधानशोधनाय च इण्डियन् सोसायटी ऑफ् एयरोस्पेस् मेडिसिन् १९५४ तस्मात् वर्षात् एव वार्षिकं वैज्ञानिकाधिवेशनम् आयोजयति।

हिन्दुस्थान समाचार / अंशु गुप्ता