आगरायां 47 देशानां 126 न्यायाधीशाः प्रतिनिधयश्च ताजस्य दर्शनम्
आगरा, 19 नवंबरमासः (हि.स.)। सिटी मोंटेसरी स्कूल सोसायटी नूतनदिल्लीस्थितया अधिष्ठितं षड्विंशतितमं अन्ताराष्ट्रियं विश्वमुख्यन्यायधीशसम्मेलनं नवम्बरमासस्य एकोनविंशतितमदिनात् चतुर्विंशतितमदिनपर्यन्तं दिल्ली लखनऊनगरयोः आयोजितं भवति। सप्तचत्वारिंशदधिकद
स्पेशल डेलिगेशन आगरा भ्रमण


आगरा, 19 नवंबरमासः (हि.स.)।

सिटी मोंटेसरी स्कूल सोसायटी नूतनदिल्लीस्थितया अधिष्ठितं षड्विंशतितमं अन्ताराष्ट्रियं विश्वमुख्यन्यायधीशसम्मेलनं नवम्बरमासस्य एकोनविंशतितमदिनात् चतुर्विंशतितमदिनपर्यन्तं दिल्ली लखनऊनगरयोः आयोजितं भवति। सप्तचत्वारिंशदधिकदेशानां मुख्यन्यायाधीशाः न्यायविदः विशिष्टाः अतिथयश्च दिल्लीम् आगत्य गुरुवासरे ताजमहलस्य दर्शनार्थम् अग्रानगरम् आगमिष्यन्ति। एकशत्षड्विंशतिः सदस्ययुक्तस्य अस्य विशेषप्रातिनिध्यदलस्य सुरक्षा यातायातव्यवस्था प्रोटोकॉल आकस्मिकचिकित्सासम्बन्धिनिर्देशानुसारं अग्राजिलाप्रशासनं सज्जीकरणं करोति।

बुधवासरे न्यायाधीशानामस्य अन्ता राष्ट्रियसम्मेलनस्य प्रथमसत्रम् नूतनदिल्लीस्थिते इण्डिया इंटरनेशनल सेन्टर इति स्थलमध्ये आयोजितं भविष्यति। एकोनविंशतिदिने विशिष्टाः अतिथयः दिल्लीस्थाने विविधानि कार्यक्रमाणि सहभाग्य परदिने विंशतिदिने सर्वेऽपि अतिथयः दिल्लीतः चतसृभिः बसयः आरुह्य ताजमहलदर्शनाय अग्रां आगमिष्यन्ति। अग्रायां ताजमहलस्य रमणीयतां निरूप्य ते लखनऊगमनं कृत्वा तत्र सी एम एस राजाजीपुरम् प्रथमकैंपसस्य तत्वाधाने आयोजिते स्वागतसमारोहे द्वितीयसत्रकार्यक्रमेषु भागं ग्रहीष्यन्ति।

अग्रानगरस्य उपपुलिसायुक्तः सैयद अली अब्बास इति उक्तवान् यत् प्रतिनियुक्तिदलस्य अग्रागतिसंबन्धिनः कार्यक्रमाः प्राप्ताः, दलस्य सुरक्षा यातायात व्यवस्था अन्याश्च महत्वपूर्णव्यवस्थाः पूर्णतया सज्जीकृताः सन्ति, कतिपयानां विषयाणां सम्बन्धे अन्तिमरूपप्रदानं क्रियते।

---------------

हिन्दुस्थान समाचार