Enter your Email Address to subscribe to our newsletters

रांची, 19 नवंबरमासः (हि.स.)।
बाबा विद्यापति स्मारकसमितेः पक्षे मिथिला पञ्चाङ्गं सह कैलेंडर विमोचनं अष्टादशजनवरीमिते दिवसे भविष्यति। कचहरीचौकस्थितकार्यालयपरिसरे प्रातः एकादशवादनात् सांस्कृतिककार्यक्रमस्य आयोजनं भविष्यति तथा सायं चतुर्वादनात् महाभण्डारस्य आयोजनं करिष्यते। अस्य कार्यक्रमस्य मुख्यातिथयः सैन्यप्रतिरक्षाराज्यमन्त्री संजय सेठ विधायकः सरयूराय सीपी सिंह नवीन जायसवाल मथुराप्रसादमहतो मन्त्री दीपिका पाण्डेय आशा लङ्कड़ा संजीव विजयवर्गीय इत्यादयः भविष्यन्ति इति जयंन्तझा बुधवासरे सूचितवन्तः।
---------------
हिन्दुस्थान समाचार