प्रधानमन्त्री मोदी अद्य आन्ध्रप्रदेश – तमिलनाडुदेशयोः यात्रायां भविष्यति, आदौ श्रीसत्यसाई–बाबा इत्यस्य महासमाधेः दर्शनं करिष्यति
नवदेहली, 19 नवम्बरमासः (हि.स.) प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेश–तमिलनाडुदेशयोः यात्रायां भविष्यन्ति। प्रातः 10 वादने आन्ध्रप्रदेशस्य पुट्टपर्थी–स्थिते भगवान् श्रीसत्यसाई–बाबायाः धामे महासमाधौ च श्रद्धाञ्जलिं दास्यति। ततः प्रायः 10:30 वा
प्रधानमंत्री नरेन्द्र मोदी। फोटो - फाइल


नवदेहली, 19 नवम्बरमासः (हि.स.) प्रधानमन्त्री नरेन्द्रमोदी अद्य आन्ध्रप्रदेश–तमिलनाडुदेशयोः यात्रायां भविष्यन्ति। प्रातः 10 वादने आन्ध्रप्रदेशस्य पुट्टपर्थी–स्थिते भगवान् श्रीसत्यसाई–बाबायाः धामे महासमाधौ च श्रद्धाञ्जलिं दास्यति। ततः प्रायः 10:30 वादने सत्यसाईं–बाबायाः शताब्दी–उत्सवे भागं ग्रहिष्यति। अस्मिन् अवसरे प्रधानमन्त्री तस्य जीवनं शिक्षा च आधारितं स्मारक–नाणकं डाक–टिकटानां संचयं च प्रकाशयिष्यति। तस्मिन् काले उपस्थितजनसमूहम् अपि सम्भाषणेन सम्बोधयिष्यति।

प्रधानमन्त्रीकार्यालयस्य (PMO) सूचनया आन्ध्रप्रदेशात् अनन्तरं प्रधानमन्त्री मध्यान्हे तमिलनाडोः कोयम्बत्तूर–नगरं गमिष्यति। मध्यान्हसमये प्रायः 1:30 वादने ‘दक्षिणभारते प्राकृतिक–कृषि–समावेशस्य’ उद्घाटनं करिष्यति। तस्मिन्नेव कार्यक्रमे प्रधानमन्त्री देशस्य 9 कोटि–कृषकान् पोषयितुं प्रधानमन्त्री–कृषि–योजनायाः 21तमं देयराशिं मोचयिष्यति, या राशिः 18 सहस्र–कोटि–रूप्यकाणि अधिकानि अस्ति।

अयं समावेशः नवम्बरमासस्य 21 दिनाङ्कपर्यन्तं भविष्यति। Natural Farming Stakeholders Forum इत्यस्य तत्वावधानने आयोजितस्य अस्य समावेशस्य उद्देश्यं सतत–कृषेः, पर्यावरण–अनुकूलस्य, रसायन–वर्जितस्य च कृषेः संवर्धनं वर्धनं च अस्ति। कार्यक्रमे जैविक–इनपुट्, स्थानीय–तन्त्रज्ञानम्, इको–फ्रेण्ड्ली–पैकेजिङ्, एग्रो–प्रोसेसिङ्, कृषक–उत्पादक–संघानां पण्यशाला–सम्बन्धः इत्येषु विषयेषु विशेष–गौरवं भविष्यति।

अस्मिन् समावेशे तमिलनाडु, पुडुचेरी, केरलम्, तेलङ्गानम्, कर्णाटकं, आन्ध्रप्रदेशः इत्येतैः दक्षिणभारते स्थितानां विभिन्न–राज्यानां 50 सहस्राधिकाः कृषकाः, वैज्ञानिकाः, प्राकृतिक–कृषिविशेषज्ञाः, अन्ये च हितधारकाः सहभागी भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता