गंगा आरोग्य धाम मुरादाबादे समाचरितः प्राकृतिक चिकित्सा दिवसः़
मुरादाबादम्, 19 नवम्बरमासः (हि.स.)।गंगाआरोग्यधामे मुरादाबादे बुधवासरे प्राकृतिकचिकित्सादिवसस्य अवसरं निमित्तीकृत्य कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे प्राकृतिकचिकित्सका योगाचार्य च तथा अन्तरराष्ट्रीयप्राकृतिकचिकित्सीसंगठनस्य समन्वयकर्त्री डॉ मह
मुरादाबाद में मनाया गया प्राकृतिक चिकित्सा दिवस


मुरादाबादम्, 19 नवम्बरमासः (हि.स.)।गंगाआरोग्यधामे मुरादाबादे बुधवासरे प्राकृतिकचिकित्सादिवसस्य अवसरं निमित्तीकृत्य कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे प्राकृतिकचिकित्सका योगाचार्य च तथा अन्तरराष्ट्रीयप्राकृतिकचिकित्सीसंगठनस्य समन्वयकर्त्री डॉ महजबी परवीन इत्यनेन उक्तं यत् अष्टादशे नवम्बरमासस्य दिवसे विश्वे सर्वत्र प्राकृतिकचिकित्सादिवसः आचर्यते।तया कथितं यत् प्राकृतिकचिकित्सा मानवदेहे निहितान् रोगान् बहिः प्रकट्य तेषां सम्यगुपचारं करोति। डॉ महजबी परवीन अवदत् यत् प्राकृतिकचिकित्सा अद्वितीया प्रणाली अस्ति यस्यां जीवनस्य शारीरिक मानसिक नैतिक आध्यात्मिक च तत्त्वानां रचनात्मकसिद्धान्तैः व्यक्तेः उत्तमस्वास्थ्यस्य निर्माणं भवति।तया प्रोक्तं यत् सर्वेषां रोगाणां मूलकारणम् उपचारश्चैकमेव अस्ति। यदा शरीरस्य अन्तः विजातीयद्रव्याणां संग्रहः अधिको भवति तदा एव वीर्यसंपन्नाः जीवाणवः विषाणवश्च शरीरम् अधिगच्छन्ति।अस्मिन्नवसरे गंगाआरोग्यधामेन सम्बद्धाः जनाः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार