उत्तरे प्रदेशे शिक्षायाः ‘नवारम्भः’ : संरक्षण-गृहस्थाः बालकाः मुख्य-धारया सह संयोजिताः भविष्यन्ति
आधारभूतशिक्षामन्त्रिणः सन्दीपसिंहस्य नूतन-उपक्रमेण प्रदेशे भ्रमित-बालकानां शिक्षां आधुनिकरूपेण परिवर्तयितुं प्रथमवारं अभिनव-प्रयोगः प्रारब्धः। बालसंरक्षणसंस्थासु नियुक्ताः आधारशिक्षाविभागस्य 46 शिक्षकाः विशेषज्ञ-शिक्षकत्वेन निर्मीयन्ते। किशोर-न्य
बेसिक शिक्षा मंत्री संदीप सिंह


आधारभूतशिक्षामन्त्रिणः सन्दीपसिंहस्य नूतन-उपक्रमेण प्रदेशे भ्रमित-बालकानां शिक्षां आधुनिकरूपेण परिवर्तयितुं प्रथमवारं अभिनव-प्रयोगः प्रारब्धः।

बालसंरक्षणसंस्थासु नियुक्ताः आधारशिक्षाविभागस्य 46 शिक्षकाः विशेषज्ञ-शिक्षकत्वेन निर्मीयन्ते।

किशोर-न्याय-समितेः तत्वावधानस्य अधः ‘काॅन्क्लेव् ऑन् जस्टिस् फॉर् चिल्ड्रेन’ नामक-कार्यक्रमस्य अन्तर्गतं एससीईआरटी इति प्राविण्य-प्रशिक्षणं आरब्धम्।

लखनऊनगरम्, 19 नवंबरमासः (हि.स.)। उत्तरप्रदेशे प्रथमवारम् एव बाल-किशोर-रक्षण-गृहेषु निवसन्तान् बालकान् मुख्यधारायाः संस्कारेण संयोजयितुं महद् अभिनवञ्च पदम् उपन्यस्तम्। महिला-कल्याण-विभागेन, यूनिसेफ-थेसंस्थया, एससीईआरटी-प्राधिकरणेन च सहकार्येण ‘नवारम्भ’ इत्याख्यः विशेष-प्रशिक्षण-मॉड्यूल् आरब्धः। अस्याः योजनायाः अन्तरगतं आधार-शिक्षा-विभागस्य 46 चयनित-शिक्षकाः आधुनिक-प्रविधिभिः विशेषज्ञाः क्रियन्ते।

आधार-शिक्षा-मन्त्री सन्दीपसिंहस्य नेतृत्वे निर्देशनञ्च अस्य विशेष-कार्यक्रमस्य आरम्भः कृतः, यस्य लक्ष्यं संरक्षण-गृहेषु वसन्तोऽपि बालकाः सामान्य-बालकानां सदृशं स्व-रुच्यानुसारं मुख्यधारायां प्रगत्यर्थं समुन्नयन्ताम् इति। सन्दीपसिंहेनोक्तम्— “प्रत्येक-बालकं सम्यक् मार्गदर्शनं दातुं, तेषां आत्मविश्वासं संवर्धयितुं च अस्माकं सर्वोच्च-प्राथमिकता।” इति। एकविंशतितम-नवम्बर-तिथेः पर्यन्तं चतुर्षु सत्रेषु अस्य कार्यक्रमस्य आयोजनं विधीयते।

अभिभावक-भूमिकां वोक्ष्यन्ति शिक्षकाः

विद्यालय-शिक्षा-महानिदेशिका मोनिका राणी अवदत्— संरक्षण-गृहस्थ-बालकानां दायित्वं शिक्षकाणां स्कन्धयोः एव वर्तते। सामान्य-बालकानां सदृशं एतेऽपि आत्मनिर्भराः सक्षमाश्च कर्तव्याः। अल्पेन प्रयत्नेन समुचितेन मार्गदर्शनेन च एते बालकाः पुनः मुख्यधारायां प्रवर्तितुं शक्नुवन्ति इति।

‘कॉनक्लेव् ऑन् जस्टिस् फॉर् चिल्ड्रेन’ मध्ये कार्यक्रमस्य शुभारम्भः - किशोरन्यायसमितेः तत्वावधाने आयोजिते कॉनक्लेव् ऑन् जस्टिस् फॉर् चिल्ड्रेन नामक-कार्यक्रमे एससीईआरटी-लखनऊ-स्थिते अस्य प्रशिक्षण-कार्यक्रमस्य विधिवत् शुभारम्भः कृतः। विशेषज्ञैः बालकानां मानसिक-आवश्यकतानां, तेषां सामाजिक-परिसरस्य, अध्ययन-प्रक्रियायाश्च अवगाहनस्य महत्त्वं विवेचितम्।

किं कारणात् ‘नवारम्भ’ अनिवार्यः?

रक्षण-गृहस्थाः बालकाः सामान्य-पर्यावरणात् विलगन्ते।

तेषां अध्ययन-गति:, मानसिक-चुनौतयश्च पृथक् भवन्ति।

शिक्षकाः तेषां विशेष-संरचनां यदि अवगच्छेयुः तर्हि शीघ्रं प्रगति-साधनं शक्यते।डिजिटल-अध्ययनं जीवन-कौशलानि च तेषां भविष्य-निर्माणे सहायकराणि भवन्ति।

अस्मिन् प्रशिक्षण-कार्यक्रमे मुख्य-केन्द्रबिन्दवः

किशोर-न्याय-व्यवस्था

जुवेनाइल्-बालकानां मानसिकता तथा चुनौतयः

अध्ययन-बाधकानि

समावेशी तथा त्वरित-अधिगम-पद्धतिः

सुरक्षा एवं संरक्षण-विधानम्

डिजिटल्-लर्निंग्

कम्प्यूटेशनल्-थिंकिंग्

शिक्षकस्य भूमिका

प्रभावी-अध्यापन-रणनीतिः

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani