प्रधानमन्त्री मोदी अद्य कोयम्बटूरे दक्षिणभारतीय–जैविक–कृषि–सम्मेलनस्य उद्घाटनं करिष्यति
कोयम्बटूरम् , 19 नवम्बरमासः (हि.स.)प्रधानमन्त्री मोदी अद्य कोयम्बटूरनगरस्य कोडिसिया–परिसरे आयोजिते दक्षिणभारतीय–जैविक–कृषि–सम्मेलने त्रिदिवसात्मकस्य अस्य समावेशस्य उद्घाटनं करिष्यति। अस्य सम्मेलनस्य अध्यक्षता तमिलनाडुदेशस्य राज्यपालः आर्.एन. रविः क
प्रधानमंत्री मोदी


कोयम्बटूरम् , 19 नवम्बरमासः (हि.स.)प्रधानमन्त्री मोदी अद्य कोयम्बटूरनगरस्य कोडिसिया–परिसरे आयोजिते दक्षिणभारतीय–जैविक–कृषि–सम्मेलने त्रिदिवसात्मकस्य अस्य समावेशस्य उद्घाटनं करिष्यति। अस्य सम्मेलनस्य अध्यक्षता तमिलनाडुदेशस्य राज्यपालः आर्.एन. रविः करिष्यति। अस्मिन् तमिलनाडु, पुडुचेरी, केरलम्, कर्नाटकं, आन्ध्रप्रदेशं च प्रदेशेभ्यः आगता कृषकाः, जैविक–कृषिविज्ञानविशारदाः, जैविक–कृषिउत्पाद–वितरकाः विक्रेतारश्च सम्मेलिष्यन्ते।

प्रधानमन्त्री अस्मिन्नेव काले प्रधानमंत्री–किसान–सम्मान–निधि–योजनायाः (PM–Kisan) 21तमं देयराशिं अपि मोचयिष्यति, येन देशस्य 9–कोट्यधिकाः कृषकाः लाभं प्राप्स्यन्ति। अस्य सम्मेलनस्य उद्येशः स्थायी, पर्यावरण–अनुकूल, रसायन–वर्जित–कृषिप्रणालीं प्रवर्तयितुं प्रोत्साहनं दातुं, देशस्य कृषेः भविष्यम् अर्थिकतया चिरस्थायिनं, जलवायु–सुसम्बद्धं, व्यवहार्यं च आदर्शरूपं जैविक–पुनर्योजी–कृषिम् अधिकवेगेन स्वीकर्तुं प्रेरयितुं च अस्ति। एतत् सम्मेलनं तमिलनाडु–जैविक–कृषि–संघेन आयोजितम्।

प्रधानमन्त्री मोदी मध्यान्हे 1:25 वादने कोयम्बटूर–विमानस्थलं आगमिष्यति। तस्मात् ते 1:30 वादने कारयानेन कोडिसिया–एरिना–क्षेत्रं गमिष्यति। मध्यान्हे 3:15 वादने पुनः विमानस्थलं प्रतिनिवर्तिष्यति, 3:30 वादने च विमानम् आरुह्य नवदेल्लीं प्रस्थास्यति। सुरक्षा–कारणेन 3,000 आरक्षक–कर्मचारीणां नियोजनं कृतम्। नगरे विशेष–मार्गेषु यातायातः अपसारितः। कोयम्बटूर–विमानस्थले पञ्च–स्तरीया सुरक्षा–व्यवस्था विधीयते। समग्रः कोडिसिया–परिसरः केन्द्रीय–औद्योगिक–सुरक्षा–बलस्य अधिकारगतः कृतः। विमानपत्तनस्थल–वाहन–स्थाननियमे अपि प्रतिबन्धः स्थापितः।

प्रधानमन्त्रिणः कोयम्बटूर–यात्रया सिंगनल्लूर, एस्.आइ.एच्.एस्–कॉलनी, चिन्नियम्पलायम्, नेहरूनगरम्, कलापट्टी, कोडिसिया–इण्डोर–क्षेत्रं, तदनु समीपस्थानि चित्रा, पीलामेडु, सरवनम्पट्टी, लक्ष्मिमिल्स्, रामनाथपुरम्, रेस्कोर्स्–प्रदेशश्च तात्कालिकतया ‘रेड्–जोन’ इति घोषिताः। आरक्षकेन सोमवासरे सायं 7 वादनात् बुधवासरस्य सायं 7 वादनपर्यन्तं ड्रोन–उड्डयनम् निषिद्धं कृतम्। एतस्मिन् मध्ये एतादृशी वार्ता प्राप्यते यत् A.I.A.D.M.K. महासचिवः एडप्पाडि के. पलनीस्वामी, T.M.A. नेता जी.के. वासनश्च कोयम्बटूरम् आगच्छन्ति, ते प्रधानमन्त्रिणा सह सम्मेलिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता