Enter your Email Address to subscribe to our newsletters

रायपुरम्, 19 नवंबरमासः (हि.स.)। पूर्वप्रधानमन्त्री इन्दिरा गाँधी-जयन्त्यवसरे छत्तीसगढ-विधानसभायाः सचिवः दिनेशः शर्मा पुष्पाञ्जलिम् अर्प्य तस्यै श्रद्धासुमनः अर्पितवान्। तस्मिन् अवसरे विधानसभासचिवालयस्य वरिष्ठ-अधिकृताः अपि पूर्वप्रधानमन्त्रिणः इन्दिरा गान्धीइत्यस्याः तैलचित्रे पुष्पाञ्जलिम् अर्पयित्वा ताम् सस्मरन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता