केंद्रीय कृषि मंत्री धमतर्यां कृषक सम्मेलने उपस्थास्यति
रायपुरम्, 19 नवंबरमासः (हि.स.)। केंद्रियकृषिमन्त्री शिवराजसिंहचौहानः अद्य बुधवासरे एकदिवसीयप्रवासार्थं छत्तीसगढं आगच्छन्ति। केंद्रियमन्त्री चौहानः रायपुरं प्राप्त्वा विविधेषु कार्यक्रमेषु सहभागी भविष्यन्ति तथा अस्मिन् काले धमतरी क्षेत्रं अपि गमिष्य
केंद्रीय कृषि मंत्री शिवराज सिंह चौहान फाइल फाेटाे


रायपुरम्, 19 नवंबरमासः (हि.स.)। केंद्रियकृषिमन्त्री शिवराजसिंहचौहानः अद्य बुधवासरे एकदिवसीयप्रवासार्थं छत्तीसगढं आगच्छन्ति। केंद्रियमन्त्री चौहानः रायपुरं प्राप्त्वा विविधेषु कार्यक्रमेषु सहभागी भविष्यन्ति तथा अस्मिन् काले धमतरी क्षेत्रं अपि गमिष्यन्ति।

नियतकार्यक्रमानुसारं केंद्रियमन्त्री चौहानः प्रातः आईसीएआर एन आई बी एस एम भवनं प्राप्य तत्र परिसरस्य अन्तः वृक्षारोपणं करिष्यन्ति। अनन्तरं समीक्षा सभा भविष्यति। प्रातः दशवादनचत्वारिंशत्क्षणपर्यन्तं कृषकसंवादस्य कृषि चौपालस्य च कार्यक्रमेषु सहभागी भविष्यन्ति। एकादशवादनदशकक्षणे ते विहायसेन प्रस्थित्वा धमतरीमण्डलम् आगमिष्यन्ति।

धमतरी क्षेत्रे द्वादशवादनत्रिंशत्कालात् द्विवादनत्रिंशतकालयावधि कृषकसम्मेलने सहभागी भविष्यन्ति। एतत् सम्मेलनं धमतरी नगरे डाक्टर शोभाराम देवांगन शासकीय हायर सेकेंडरी स्कूलस्य मैदानमध्ये आयोजितम् अस्ति। कार्यक्रमस्य समाप्ते केंद्रियमन्त्री चौहानः द्विवादनचत्वारिंशत्क्षणे प्रस्थित्वा पुनः रायपुरं आगमिष्यन्ति।

हिन्दुस्थान समाचार