Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 19 नवंबरमासः (हि.स.)। नारी-शक्ति-दिवसस्य अवसर उपलक्ष्ये बुधवासरे लखनऊस्थिते नवयुग-कन्या-महाविद्यालये अन्तर-महाविद्यालयीय-खो–खो-प्रतियोगिता तथा पुरस्कार-वितरण-समारोपः उत्साहपूर्वकम् आयोजनम् अभवत्। कार्यक्रमस्य आयोजनं शारीरिक-शिक्षा-विभागेन, क्रीड़ा-समित्याः तथा मिशन-शक्ति-समित्याः संयुक्ततया कृतम्।मुख्य-अतिथिरूपेण अखिल-भारतीय-विद्यार्थी-परिषदस्य राष्ट्रीय-अध्यक्षः प्रोफेसर् राज-शरण-शाही उपस्थितः, यः छात्राः प्रेरयामास। कार्यक्रमस्य अध्यक्षता प्राचार्या प्रोफेसर् मंजुला-उपाध्यायया कृता। दीप-प्रज्वलनम्, रानी-लक्ष्मीबायाः प्रतिमायाः माल्यार्पणं च कार्यक्रमस्य शुभारम्भः अभवत्।खो–खो-स्पर्धायाः अंतिम-मेलनं लखनऊ-क्रिश्चियन-महाविद्यालयेन तथा नवयुग-कन्या-महाविद्यालयेन मध्ये आसीत्। लखनऊ-क्रिश्चियन-महाविद्यालयः विजयी जातः। उभाभ्याम् दलाभ्यां पुरस्काराः प्रमाणपत्राणि च प्रदत्तानि। रानी-लक्ष्मीबायाः झांकी, सांस्कृतिक-कार्यक्रमाः, पिरामिड-प्रदर्शनम्, योग-प्रस्तुतिः च कार्यक्रमस्य मुख्य-आकर्षणानि आसन्।मुख्य-अतिथिना प्राचार्यया च छात्रानां प्रशंसा कृता तथा क्रीडायाः महत्वं विशेषतः उद्बोधितम्। कार्यक्रमस्य सफल-संचलने शारीरिक-शिक्षा-विभागस्य, मिशन-शक्ति-समित्याः महाविद्यालय-दलस्य च महत्वपूर्णं योगदानम् आसीत्। कार्यक्रमः राष्ट्र-गानस्य गायनेन समापितः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani