मुख्यमंत्रीजीवनप्रेरणायोजनायाः’ शुभारम्भः श्वः भविष्यति, स्नातकयुवकेभ्यः आर्थिकसहायता प्रदास्यतत्र
गुवाहाटी, 02 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमंत्री डा. हिमन्तबिस्वसरमा नामधेयेन “मुख्यमंत्री–जीवन–प्रेरणा–योजना” इति नूतना योजना उद्घोषिता अस्ति। अस्याः योजनायाः प्रमुखोद्देश्यं तादृशान् युवान् प्रोत्साहयितुं अस्ति, ये अद्यतनकाले स्नातक–उपाधि
The image shared by Assam CM Dr Himanta Biswa Sarma.


गुवाहाटी, 02 नवम्बरमासः (हि.स.)। असमराज्यस्य मुख्यमंत्री डा. हिमन्तबिस्वसरमा नामधेयेन “मुख्यमंत्री–जीवन–प्रेरणा–योजना” इति नूतना योजना उद्घोषिता अस्ति। अस्याः योजनायाः प्रमुखोद्देश्यं तादृशान् युवान् प्रोत्साहयितुं अस्ति, ये अद्यतनकाले स्नातक–उपाधिं प्राप्तवन्तः सन्ति तथा रोजगारस्य अन्वेषणे प्रतियोगी–परीक्षाणां च सिद्धताम् कुर्वन्ति।

योजनायाः अन्तर्गतं पात्राः स्नातक–युवाः एकवर्षपर्यन्तं प्रतिमासं २५०० रूप्यकाणां आर्थिक–सहायां प्राप्स्यन्ति। तेषां स्वावलम्बनस्य दिशि प्रशिक्षणं मार्गदर्शनं च अपि प्रदास्यते।

मुख्यमंत्री–सरमणा उक्तम् यत् राज्यसर्वकारः युवान् प्रगतिपथं प्रति प्रेरयितुं, प्रतियोगी–परीक्षासु च तान् सफलता–प्राप्तये समर्थयितुं दृढप्रतिज्ञा अस्ति। अस्य योजनायाः औपचारिकः शुभारम्भः सोमवारे भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता