इन्दौरनगरे आयोजितायां राष्ट्रियमूट् न्यायविवादप्रतियोगायां बीबीएयू विश्वविद्यालयस्य विध्यर्थिभिः प्रथमस्थानं प्राप्तम्।
लखनऊनगरम्, 02 नवम्बरमासः (हि.स.)। उत्तरप्रदेशराजधानीलखनौस्थे बाबा साहेब भीमराव अम्बेडकर विश्वविद्यालये (बीबीएयू) स्थितस्य विधिशास्त्रविद्यालयस्य विद्यार्थिभिः पुनरपि विश्वविद्यालयस्य नाम राष्ट्रस्तरे गौरवितम्। विश्वविद्यालयस्य जनसम्पर्काधिकारी रच
पुरस्कार पाते बीबीएयू के छात्र


लखनऊनगरम्, 02 नवम्बरमासः (हि.स.)। उत्तरप्रदेशराजधानीलखनौस्थे बाबा साहेब भीमराव अम्बेडकर विश्वविद्यालये (बीबीएयू) स्थितस्य विधिशास्त्रविद्यालयस्य विद्यार्थिभिः पुनरपि विश्वविद्यालयस्य नाम राष्ट्रस्तरे गौरवितम्।

विश्वविद्यालयस्य जनसम्पर्काधिकारी रचना गंगवार इत्यया रविवासरे प्रदत्तायां सूचनायां कथितं यत्— विभागस्य छात्रा अंजु बाला (चतुर्थवर्ष), आयुष सिंहः (चतुर्थवर्ष) अविरल द्विवेदी च (द्वितीयवर्ष) इत्येतैः संयुत्तया दलेन इन्दौरनगरे आयोजितायां ‘तृतीय डॉ. के. एल. ठकुराल स्मारक राष्ट्रियमूट् न्यायविवादप्रतियोगायां 2025’ अस्यां स्पर्धायां प्रथमस्थानं प्राप्तं उत्कृष्टं प्रदर्शनं च कृतम्।

एषा प्रतियोगिता ओरिएण्टल् विश्वविद्यालयस्य इन्दौरस्थस्य विधिशाखया आयोजिता आसीत्, यस्मिन् देशस्य विविधान् विश्वविद्यालयानां दलाः सहभागिनः आसन्। विजेतुः दलाय 30 सहस्ररूप्यकाणां हस्तराशिः ट्रॉफी इत्यया सम्मानं दत्तम्।

पुरस्कारवितरणं मध्यप्रदेशोच्चन्यायालयस्य पूर्वन्यायाधीशेन न्यायमूर्तिना आई. एस्. श्रीवास्तवेन कृतम्। तदनन्तरं बीबीएयू विश्वविद्यालयस्य छात्रायै अंजु बालायै तस्याः प्रभावशालीप्रदर्शनस्य कारणेन ‘सर्वश्रेष्ठवक्ता’ इत्याख्यं उपाधिं प्रदत्तं, यस्य अन्तर्गते तस्यै 5 सहस्ररूप्यकाणां हस्तराशिः दत्ता।

हिन्दुस्थान समाचार / Dheeraj Maithani