Enter your Email Address to subscribe to our newsletters

दरभंगानगरम्, 2 नवंबरमासः (हि.स.)। विधानसभानिर्वाचनस्य अस्मिन् चरणे अलीनगरस्थानकं राज्यस्य अत्यन्तं चर्चितस्थानकानां मध्ये गण्यमानं जातम्। अत्र राजद–इण्डी–गठबन्धनस्य प्रत्याशी बिनोदमिश्रः तथा भारतीयजनतापक्षस्य प्रत्याशिनी मैथिलीठाकुर मध्ये स्पर्धा अत्यन्तं समतायुक्ता, कांटेयुद्धवत् प्रवर्तमानम् अस्ति।
यत्र एकस्मिन् पक्षे मैथिलीठाकुरसमर्थनार्थं केन्द्रीयगृहमन्त्री अमितशाहः, जनता–दल–(यु)–कार्यकारी–अध्यक्षः संजयझा तथा भाजपाजदयू–गठबन्धनस्य अन्ये अपि अनेकाः वरिष्ठाः नेतारः प्रचाररणाङ्गणे अवतीर्णाः सन्ति, तत्र अपरस्मिन् पक्षे बिनोद–मिश्रस्य समर्थनार्थं पूर्व–उपमुख्यमन्त्री अब्दुल–बारी–सिद्दीकी–सहिताः अनेके राजदवरिष्ठनेतारः अनवरतं प्रचारकार्यम् अनुष्ठायन्ति। उभयौ प्रत्याशी स्व–स्व परम्परागतमतदाता–आधारं दृढीकर्तुं प्रयत्नं कुर्वन्तौ, परस्परस्य मत–क्षेत्रे प्रवेशाय अपि रणनीतिं अपनुतः स्तः।
राजनीतिकविश्लेषकाः वदन्ति यत् अस्मिन् स्थानके जातीयसमीकरणानि अतीव जटिलानि सन्ति। मैथिली–ठाकुराय एम–वाई (मुस्लिम–यादव)–समीकरणं आव्हानरूपं भवेत्, जबकि बिनोदमिश्राय अलीनगरक्षेत्रे ब्राह्मणमतदातॄणां, ये सर्वाधिक–संख्यायुक्ताः सन्ति, मनोभाव–अनुकूलनं कठिनपरीक्षा भवति।
बिनोदमिश्रः निरन्तरं जनसंपर्ककार्यक्रमैः जनताभिः सह प्रत्यक्षसंवादं स्थापयति, यदा मैथिली–ठाकुरः स्व–लोकप्रियतां, पारिवारिक–छबिं, तथा भाजपा–जदयू–गठबन्धनस्य सामर्थ्यम् आधाय जनमानस–संपर्के प्रवृत्ता अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता