Enter your Email Address to subscribe to our newsletters


मुख्यमंत्री योगी पीड़ित परिवारान् विस्थापयितुं निर्दिष्टवान् ,55लक्षोत्तर 21 कोटिमितानि रूप्यकाणि स्वीकृतानि
लखनऊ/बहराइचम्, 02 नवंबरमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः बहराइच् जनपदे नौकादुर्घटनायां स्वजनान् हतवन्तं पीडितपरिवारं रविवासरे उपसृत्य तान् मिलितवन्तः। तस्मिन् अवसरः तेभ्यः प्रति स्वं शोकसंवेदनां व्यक्तवन्तः। सहैव तेभ्यः पीडितपरिवारभ्यः चतुर्णां लक्षरूप्यकाणां राहतधनस्य चेक् प्रदत्तवन्तः। मुख्यमन्त्री अवदत्— अस्मिन् दुःखसमये सरकारः जनप्रतिनिधयः च सर्वे तेषां पक्षे स्थिताः सन्ति इति। तस्मात् पूर्वं मुख्यमन्त्री योगी हवाईमाध्यमेन क्षेत्रस्य सर्वेक्षणं कृत्वा परिस्थितेः सूक्ष्मं परीक्षणं कृतवन्तः।
मुख्यमन्त्रिणा अधिकारिभ्यः निर्देशः दत्तः यत् एकमासपर्यन्ते भरथपुरस्य पीडितपरिवाराः विस्थापनीयाः स्युः इति। तदर्थं एकविंशतिः कोट्यः पञ्चपञ्चाशल्लक्षरूप्यकाणि च स्वीकृतानि सन्ति। तस्मिन् अवसरः अधिकारिणः अपि निर्दिष्टवन्तः यत् सर्वे प्रभावितपरिवाराः धनराशिं भूमिं गृहम् च लभेरन् इति।
ते अवदन्— भरथपुरस्य ये परिवाराः विस्थापनीयाः सन्ति, ते स्वग्रामनाम्ना निर्मितायां कॉलोनीत्याख्यायां स्थाप्यन्ताम्। तस्मात् बहराइच् प्रदेशे अन्येऽपि ग्रामाः ये भरथपुरवत् संकटे सन्ति, तेषां विस्थापनप्रक्रिया अपि शीघ्रं आरभ्यताम्। तदर्थं आवश्यकं बजट् शासनस्य समीपे प्रस्तुत्यताम् यतः तेऽपि शीघ्रं सुरक्षितस्थाने स्थाप्येरन्।
मुख्यमन्त्री योगी पीडितपरिवारं प्रति उक्तवन्तः— दुःखस्य अस्मिन् क्षणे सरकारः भवन्तः सहैव अस्ति, सर्वथा सहाय्यं करिष्यति च। एकमासमध्यं सर्वे ग्रामवासिनः स्वग्रामनाम्ना विकसितायां कॉलोनीस्थाने पुनः स्थाप्यन्ते, यत्र सर्वाः सुविधाः प्रदास्यन्ते इति तैः आश्वासनं दत्तम्।
मुख्यमन्त्री अवदत्— ये जनाः स्वजनहानिं प्राप्तवन्तः, तेषां दुःखसमये सरकारः संवेदनया सहाय्येन च सहैव स्थितवती अस्ति। ततः पूर्वं तैः क्षेत्रस्य हवाईसर्वेक्षणं कृतम्, तत्र स्थितैः अधिकारिभिः सह घटनायाः विस्तृतं विवरणं प्राप्तम्। तस्मिन् समये स्पष्टनिर्देशाः दत्ताः— सर्वे पीडितपरिवाराः ग्रामवासिनश्च एकमासमध्यं कॉलोनीनिर्माणेन व्यवस्थितं पुनर्वासं प्राप्नुयुः।
ते अपि उक्तवन्तः— अस्याः योजनायाः अन्तर्गतं सर्वाः आवश्यकसुविधाः, यथा विद्युत् जलं मार्गः च आवासः च, निश्चिता भवेत्। मुख्यमन्त्री योगी अवदत्— एषा प्रक्रिया एकमासमध्यं पूर्णा क्रियताम्, यतः प्रभावितपरिवाराणां पुनर्वासः शीघ्रं सम्पन्नः स्यात्। ते अपि अवदत्— ये जनाः बहराइच् प्रदेशे घनवनमध्यं निवसन्ति, तेऽपि त्वरितं सुरक्षितस्थाने स्थाप्यन्ताम् इति।
हिन्दुस्थान समाचार