मुख्यमंत्री डॉ. यादवोऽद्य बिहारस्य निर्वाचने , मार्गयात्रया जनसभाः संबोधितवान्
भाेपालम्, 2 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः अद्य रविवासरे बिहारे निर्वाचनप्रचाराय यास्यन्ति। ते दरभङ्गायां कार्यकर्तृभिः सह भेटं करिष्यन्ति। मधुबनीजनपदस्य फुलपरासविधानसभाक्षेत्रे जनसभां सम्भाषणं च करिष्यन्ति। सह एव पट्नाजन
मुख्यमंत्री डॉ. यादव ने लोक आस्था के पावन पर्व 'छठ पूजा' पर  सभी नागरिकों को दी शुभकामनाएं


भाेपालम्, 2 नवंबरमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः अद्य रविवासरे बिहारे निर्वाचनप्रचाराय यास्यन्ति। ते दरभङ्गायां कार्यकर्तृभिः सह भेटं करिष्यन्ति। मधुबनीजनपदस्य फुलपरासविधानसभाक्षेत्रे जनसभां सम्भाषणं च करिष्यन्ति। सह एव पट्नाजनपदस्य फतुहाविधानसभाक्षेत्रे पक्षप्रार्थिनः समर्थनार्थं रोड शोकार्यक्रमम् अपि करिष्यन्ति।

निश्चितकार्यक्रमानुसारं मुख्यमन्त्री डा यादवः रविवासरे प्रातः नवं चत्वारिंशदधिको मिनिट् पञ्चचत्वारिंशत् वादनम् भोपालनगरात् दरभङ्गा बिहारप्रदेशं प्रति प्रस्थिताः भविष्यन्ति। प्रातः एकादशवारं पञ्चदशमिनिटे दरभङ्गात् फोकचाहा मधुबनीजनपदं प्रति आगमिष्यन्ति। प्रातः एकादशवारं पञ्चचत्वारिंशदधिके मिनिटे मधुबनीजनपदस्य फुलपरासविधानसभाक्षेत्रस्य फोकचाहा इत्यत्र जनसभां सम्भाषणं करिष्यन्ति।

मध्याह्ने द्वयवादने पट्नाजनपदस्य फतुहाविधानसभाक्षेत्रस्य सूर्यदेवालय बैरियास्थानात् पक्षप्रार्थिनः समर्थनाय रोड शो करिष्यन्ति। सायं पञ्चवादने विंशतिमिनिटे भोपालं प्रत्यागमिष्यन्ति। सायं षड्वादने त्रिंशन्मिनिटे राजधानीयां लालपरेडमैदानं गत्वा सम्राट विक्रमादित्य महानाट्य कार्यक्रमे सहभागिनो भविष्यन्ति।

---------------

हिन्दुस्थान समाचार