छठ मातरं नाटकमिति कथितारो न क्षंतव्याः बिहारेण- केशव मौर्यः
पटना, 02 नवम्बरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री तथा बिहारे विधानसभानिर्वाचनस्य प्रदेशनिर्वाचनसहप्रभारी केशवप्रसादमौर्यः उक्तवान् यत् “छठमैयां नाटकमिति वक्तारं बिहारः न क्षमिष्यति। यस्य आस्थाया मातृत्वस्य च प्रधानमन्त्रिणः च अपमानः कृतः, त
केशव मौर्या की फाइल फोटो


पटना, 02 नवम्बरमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री तथा बिहारे विधानसभानिर्वाचनस्य प्रदेशनिर्वाचनसहप्रभारी केशवप्रसादमौर्यः उक्तवान् यत् “छठमैयां नाटकमिति वक्तारं बिहारः न क्षमिष्यति। यस्य आस्थाया मातृत्वस्य च प्रधानमन्त्रिणः च अपमानः कृतः, तम् जनता शिक्षां दास्यति। बिहारभूमिः तं तस्य मर्यादां दर्शयिष्यति।”

तेजस्वीयादवं राहुलगान्धिनं च लक्ष्यीकृत्य मौर्येण तीक्ष्णः व्यङ्गः कृतः — “उभौ अपि सत्तायै तथा तृष्यतः यथा जलविहीना मत्स्या तृष्यति। किन्तु बिहारे मुख्यमन्त्रिपीठं, देशे च प्रधानमन्त्रिपीठं २०४७ पर्यन्तं रिक्तं नास्ति। मोदीनीतीशयोः उपस्थितौ एते केवलं स्वप्नानि पश्येयुः।”

समाजवादीपक्षनेता विषये टिप्पणीं कुर्वन् मौर्यः अवदत् यत्“अखिलेश्यादवस्य अवस्था ‘बेगानीशाद्यां अब्दुल्ला दीवानः’ इव अस्ति। तस्य पक्षस्य बिहारे काचित् प्रतिष्ठा नास्ति; सः अत्र केवलं निजामवमानं कर्तुं आगतः।”

मौर्यः अवदत् यद्“अस्माकं पञ्चदलीयः एनडीए पञ्चपाण्डवानामिव धर्मयुद्धं युध्यते यद्विकासस्य न्यायस्य सुशासनस्य च संग्रामः। अस्य वारस्य अपि विजयः निश्चितः अस्ति। बिहारात् उद्गतः अयं विजयसन्देशः समग्रभारतीयराजनीतिं प्रभावितं करिष्यति।”

तेन उक्तं यत् “यथा वर्षे २०१७ उत्तरप्रदेशे भाजपायाः लहरः अभवत्, तथैव २०२५ मध्ये बिहारे अपि तादृशं उत्साहं दृश्यते। २०१० तमे वर्षे एनडीए द्विशताधिकाः आसनाः जितवान्, अद्यापि तत्सदृशं वातावरणं विद्यते।”

मौर्यः अवदत् यत् “प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्री नीतीशकुमार च इत्येतयोः युगलेन बिहारे द्विचक्रशक्तिः दत्ता। एषा सरकारः सर्वाङ्गीणविकासं कृतवती, जनता अपि तस्मिन् एव विश्वासं दर्शयति। अस्य वारस्य अपि बिहारः तदेव इतिहासं पुनरावर्तयितुं सज्जः अस्ति। १४ नवम्बरदिनाङ्के परिणामेषु एनडीए ऐतिहासिकं जयफलम् अवाप्तुम् अर्हति।”

मौर्येण उक्तं यत् “एनडीए जातिवादराजनीतिं न करोति। अस्माकं मतदाता सर्वजातिषु सर्ववर्गेषु सर्वधर्मेषु च सन्ति। अस्माकं सूत्रम् अस्ति — सबका साथ, सबका विकास। अस्माकं मतः न आवश्यकः ये घुस्पैठकाः वा देशद्रोहिनः।

विपक्षे प्रति प्रहारं कृत्वा मौर्यः अवदत् यद्“राजद-कांग्रेसयोः सरकाराः भ्रष्ट्राचारस्य अत्याचारस्य अपराधस्य च जनन्यः आसन्। यदि एते दलाः पुनः सत्तां प्राप्स्यन्ति तर्हि बिहारं पुनः विनाशस्य गर्ते पतिष्यति। किन्तु अद्य बिहारः जागृतः अस्ति; सः जंगलराजं पुनः न इच्छति।”

मौर्यः अवदत् यत् “ये संसद्निर्मितान् विधिनिर्णयान् भङ्क्तुं वदन्ति, ते बाबासाहेबभीमरावाम्बेडकरस्य संविधानस्य अपमानं कुर्वन्ति। न ते विधीन् निराकर्तुं शक्नुवन्ति, न च सत्तां प्राप्तुं।”

मौर्यः उक्तवान् — “अस्मिन् निर्वाचने महिलामतदात्री एनडीए-जयस्य आधारं भविष्यन्ति। बिहारस्य एकं दशलक्षचत्वारिंशत्कोटि जीविकादीद्योः आत्मनिर्भराः अभवन्। तासां आशीर्वादः एनडीए-सहितः अस्ति। मद्यनिषेधनीतिः ऐतिहासिकं निर्णयम् आसीत्, यः नीतीशकुमारस्य दूरदर्शित्वं दर्शयति। तस्मात् बिहारस्य मातृशक्ति प्रसन्ना अस्ति, आगामिनि निर्णयाः अपि राज्यहिताय एव भविष्यन्ति।”

मौर्यः अवदत् — “त्रिकोट्याः रोजगारसन्धीनां वचनं मिथ्या अस्ति। बिहारस्य अर्थसंकल्पः त्रिलक्ष्कोटिः एव, यावत् तावत् रोजगारार्थं दशगुणं त्रिंशल्लक्ष्कोटिः आवश्यकम्। जनता इदानीं एतादृशे मायाजाले न पतिष्यति।”

प्रशान्तकिशोरं प्रति व्यङ्गं कुर्वन् मौर्यः अवदत् यत् जनस्वराजनामके तस्य प्रयासः केवलं मतविभाजनाय एव। तस्य राजनैतिकं महत्वं नास्ति। सः बिहारे केवलं मतविभाजकभूमिकां निभालयति। बिहारजनता प्रबुद्धा अस्ति, सा एतादृशेषु प्रयोगेषु न भ्रमिष्यति।”

---------------

हिन्दुस्थान समाचार